________________
>zy
श्रीनवतत्त्व सुमङ्गलाटीकायां
निर्जरा
तत्त्वप्रारम्भः॥
-<T
॥ अथ निर्जरातत्त्वम् ॥
॥१०४॥
><995->
ज्ञानं मोहमहान्धकारलहरीसंहारसूर्योदयः, ज्ञानं दुर्जयकर्मकुञ्जरघटापश्चत्वपश्चाननः॥
जीवाजीवविवेकविस्तरविधौ ज्ञानं परं लोचनं, मत्यादिप्रविभेदपञ्चकयुतं ज्ञानं समाराध्यताम् ॥२॥ नूतनकर्मागमनिरोधलक्षणं सप्तपश्चाशद्भेदभिन्न संवरतत्त्वं समाख्याय क्रमाऽऽयातं पुरातनकर्मक्षयोपायभूतं निर्जरातत्त्वं व्याचिख्यासुराचार्यो निर्जराभेदमात्रप्रतिपादिकां 'बन्धाविनाभाविनी निर्जरा' इति विज्ञायाऽवसरसङ्गतं अग्रे वक्ष्यमाणस्वरूपं प्रकृतिस्थितिरसप्रदेशाऽऽत्मकचतुर्भेदभिन्नं बन्धतत्त्वं च प्रतिपादयन्ती गाथा रचयति:बारसविहं तवो नि-जरा य बन्धो चउविगप्पो या पयइ ठिड अणुभाग-पएसमेएहिं नायव्वो॥३४॥
१ ग्रन्थप्रणालिसंरक्षणार्थमयं क्रम उपादत्तः, अन्यथा ' अणसणमुणोयरिया, पायच्छित्तं विणओ' इति गाथाद्वयव्याख्याना| नन्तरमियं गाथा व्याख्येया इति ।
109594250)