________________
>
यद्यपि अत्र देशविरतेः सद्भावादपेक्षया समित्याद्यन्तर्गताः भेदाः केचिदागच्छन्ति परं विरतेरल्पत्वादत्र न विवक्षिता इति । देवगतौ तथैव द्वादशभावनाभेदाः। मनुजगत्यां सर्वविरतिसद्भावात् सप्तपश्चाशदपि घटन्ते ॥ एकेन्द्रियमार्गणा संवरभेदशून्या, यतो देशसर्वसंयमाऽभावात् , समित्यादयो भेदास्तु न सन्ति, परं मनोयोगाऽभावाद् भावना अपि न वर्त्तन्त इति । एवं द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियमार्गणास्वप्यूह्यम् । पञ्चेन्द्रियमार्गणायां गर्भजमनुजमाश्रित्य सप्तपञ्चाशदपि ॥ कायमार्गणामाश्रित्य पृथ्व्यप्तेजोवायुवनस्पतिमार्गणास्वेकेन्द्रियवत् , त्रसकायमार्गणायां पञ्चेन्द्रियमार्गणावत् सप्तपश्चाशदपीति, एवमन्यास्वपि मार्गणासु स्वधिया परिभावनीयमिति संवरतत्त्वं समाप्तम् ॥
महानन्दपदाऽवाप्ति-निमित्तसंवरसुभेदव्याख्यातः । सद्योऽस्तु श्रमणसङ्घो संवरवरभक्तिहेवाकः ॥१॥ इति संविशशाखीय-विद्वद्धृन्दावतंस कुमतध्वान्ततरणि-मुनिचक्रचूडामणि-तपागच्छगगनदिनमणि-श्रीमन्-मुक्तिविजय (अपरनाम मूलचन्दजी ) गणिपादपद्मचञ्चरीक-सर्वशशासनगभस्तिमालि-निरवद्यचारित्रशालि-तपागच्छाचार्यपुरन्दरश्रीमद्विजयकमलसूरीश्वरपट्टोदयाद्रिसहस्रांशु-अप्रमेयप्रभावप्रवचनप्रवीणचेतस्काऽनवद्यसंयमसेवाहेवाक-व्याख्याप्रशाऽऽचार्यवर्यश्रीमद्विजयमोहनसूरीश्वरविनेयरत्न-गीतार्थवर-पाठकप्रवरोपाध्यायपदाऽलङ्कृतश्रीमत्प्रतापविजयगणिशिष्याणुप्रवर्तकमुनिश्री
धर्मविजयविरचितायां नवतत्त्वप्रकरणस्य सुमङ्गलाटीकायां षष्ठं संवरतत्त्वं समाप्तम् ।।
-
卐卐E卐yz50卐८)-ge
<
<