SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 92 बीनवतत्त्वमुमङ्गलाटीकायां॥१०३॥ संवरतत्त्वोपसंहारः॥ >< वाहोरात्राऽभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः सर्वदेशच्छेदाहा॑तिचारजनितशबलत्वेन युक्ता इत्यादिस्वरूपा निर्ग्रन्थबकुशाः । तथा कुत्सितं उत्तरगुणप्रतिषेवया सञ्चलनकषायोदयेन वा पितत्त्वात् शीलं अष्टादशशीलाङ्गसहस्रभेदं यस्य स कुशील इति, एतेऽपि द्विविधाः, प्रतिसेवनाकुशीलाः कषायकुशीलाच, तत्र ये नैर्ग्रन्ध्यं प्रति प्रस्थिता अनियतेन्द्रियाः कथञ्चित् किश्चिदेवोत्तरगुणेषु पिण्डविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोल्लचनमाचरन्ति ते प्रतिसेवनाकुशीला, येषां तु संयतानामपि सतां कथश्चित्सवलनकषाया उदीर्यन्त ते कषायकुशीला इति । निर्गतो ग्रन्थान्मोहनीयाख्यात् निर्ग्रन्थः क्षीणकषाय उपशान्तकपायो वा, वीतरागच्छद्मस्था योगसंयमलक्षणेर्यापथप्राप्तास्ते निर्ग्रन्था इत्यर्थः । क्षालितसकलघातिकमेमलपटलत्त्वात् स्नात इव स्नातः स एव स्नातकः, सयोगाः शैलेशीप्रतिपन्नाश्च केवलिनस्नातका इत्यर्थः। उक्तस्वरूपाणां सामायिकादिचारित्राणां कियन्ति गुणस्थानकानि तत्प्रदर्यते-सामायिकचारित्रं प्रमत्तगुणस्थानकादारभ्य चतुर्दशगुणस्थानं यावत् , छेदोपस्थापनीयं प्रमत्ताप्रमत्तगुणस्थानसङ्गतं, परिहारविशुद्धिकमपि तथा, सूक्ष्मसंपरायाऽऽख्य सूक्ष्मसंपरायगुणस्थानवर्ति, अथाख्यातं उपशान्तमोहादिषु चतुर्ष गुणस्थानकेषु वर्त्तत इति ।। कालपरिमाणं तु तत्तच्चारित्रव्याख्याप्रसङ्गे प्रायः प्रदर्शितमेवातो भूयो न लिख्यते ॥ ३२ ॥ ३३ ॥ एवं संवरतत्त्वस्य सप्तपश्चाशद्भेदान् संक्षेपतो वर्णयित्वा गत्यादिमागेणासु कियन्तो भेदा इति दिग्दर्शनं विधीयते-तत्रादौ नरकगत्यां समिति-गुप्ति-परीपह-यतिधम्म-चारित्राणामभावात केवलमनित्यादिद्वादशभावनास्वरूपसंवरभेदाः केपाश्चित्सम्यगदृष्टिनारकाणां वर्तन्ते नाऽन्ये, यतो सामत्यादयो भेदाः सर्वविरतिस्वाधीनाः, न च नरकगत्यां सर्वविरतिरिति समित्यादीनां तत्राऽभावः ॥ तिर्यग्गतावपि तथैव द्वादशभेदाः, 3ry0972953卐CE > <3- ॥१०३॥ >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy