________________
25卐 9-
मत्रापि द्रष्टव्यम् , यावानामगुणाविर्भावो जातस्तावानधिरोहणाऽऽयासस्सफल एव, सिद्धान्तेऽपि सामायिकादीनां संयमानां प्राप्तिः प्रायः क्रमश एव प्रतिपादिता, यतो मिथ्यादृष्टयोऽपि केचन अन्तर्मुहूर्ताऽनन्तरं मोक्ष प्रतिपद्यन्ते तेऽपि क्षायोपशमिकभावयुक्तसामायिकचारित्रावाप्त्यनन्तरं क्रमशः सूक्ष्मसंपरायमथाख्यातसंयमं प्राप्नुवन्ति, एतेन पट्खण्डाधिपभरतचक्रीदृष्टान्तप्रतिपादनपुरस्सरं सामायिकादीनां निरुपयोगित्त्वं प्रजल्पतां वावदूकानां. महामोहावर्तगर्तपतितानामज्ञाततत्त्वानां मतमपास्तं द्रष्टव्यमिति । चिरंतनाचार्यवरैरपि मेधाऽऽयुर्बलवैभवादिभिः समन्तात् परिहीयमाणेऽस्मिन् दुःषमाभिधाने करालकाले बाहुल्येन बकुशकुशीलसंज्ञकं चारित्रं प्रतिपादितं, सेवार्तसंहननोपेतत्त्वात् सांप्रतकालीनसाधूनां, कुतस्सूक्ष्मसंपरायादीनां सम्भावनापि । अत्र प्रसङ्गसङ्गतेः पुलाकबकुशादीनां नामग्राहं लेशतो वर्णनं लिख्यते-पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति । तत्र धर्मोपकरणादृते परित्यक्तबाह्याऽभ्यन्तरोपधयो निर्ग्रन्था इति निर्ग्रन्थसामान्यलक्षणं, अथ प्रत्येकमुच्यते-जिनोक्तादागमात् सततमप्रतिपातिनो ज्ञानानुसारेण क्रियाऽनुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाकाः, बकुशः शबलः कर्बुर इत्यर्थः, शरीरोपकरणविभूषानुवर्तितया शुक्ष्यशुद्धिव्यतिकीर्णचरण इति, मोहनीयक्षयं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तिनः निग्रेन्थबकुशाः, तत्र शरीरे करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदृषिकामलायपनयन दन्तधावनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्तः शरीरबकशाः, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवास:प्रियाः पात्रदण्डकाद्यपि तैलमात्रयोज्वलीकृत्य विभूषार्थमनुवर्तमाना बिभ्रति, उभयेऽपि च ऋद्धियशस्कामाः, तत्र ऋद्धिं प्रभूतवस्त्रपात्रादिकां ख्यातिं च गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरुपां कामयन्ते, सातगौरवमाश्रिताः नाती
->पर
१८