SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्री नवतत्त्व - सुमङ्गलाटीकायां ॥ १०२ ॥ N<5>5<55<>< ( पु द्विविधं, उपशमश्रेणीं प्रपन्नस्योपशान्तमोहगुणस्थानकवर्त्तिनः सर्वथा कषायाणामुपशान्तत्त्वादुदयाभावादान्तर्मुहूर्त्तस्थितिकमथाख्यातचारित्रम् | क्षपकश्रेणिं प्रतिपन्नस्य क्षीणमोहादिगुणस्थानकवर्त्तिनः कषायाणां सर्वथा क्षीणत्त्वादुदयाभावाञ्जघन्यत आन्तर्मुहूर्त्तस्थितिकालीनमुत्कृष्टतश्च देशोनपूर्वकोटिप्रमाणमथाख्यातचारित्रं भवति, अत्र द्विविधेऽपि चारित्रे कषायाणामनुदयादथाख्यातत्वं भवति, परं प्रथमं कषायोदयाऽपेतमपि सत् सत्तायां कषायाणामस्तित्त्वात् श्रेणिप्रतिपातकालेऽधस्तनीयगुणस्थानेषु उपशमक्रमेण कषायाणामुदयात् प्रतिपाति, द्वितीयश्चाऽप्रतिपाति, कषायाणां सर्वथा क्षीणच्चादप्रतिपाताच्च क्षपकश्रेणित इति । अथवोपशान्तमोह-क्षीणमोहगुणस्थानयोः छद्मस्थवत्त्वात् तत्रस्थं अथाख्यातचारित्रं छद्मस्थाऽथाख्यातचारित्रम्, सयोगिकेवल्ययोगिकेवल्यवस्थायां तु केवलियथाख्यातचारित्रमिति द्वैविध्यमपि । ननु ' जं चरिऊण सुविहिया वच्चति अयरामरं ठाणं ' इत्यनेन तु प्राग्व्यावर्णितस्वरूपाणां सामायिकादिचारित्राणां वैफल्यं प्रजायते, पुनरैर्दयुगीनमुनिवराणां तत्तत्सामायिकादिचारित्राचरणसंगतलोच - विहारादिकष्टानुष्ठानमपि निष्फलत्त्वं याति, यतः कालमहिम्नैव परिहारविशुद्धिक-सूक्ष्मसंपरायअथाख्यातसंज्ञकाः संयमभेदाः साप्रतं न वर्त्तन्ते, साधवश्च मोक्षार्थं यतन्ते, मोक्षश्च प्रागुक्तरीत्या अथाख्यातचारित्रसाध्यः, तस्य च दुःषमारकदोषात् सांप्रतमभावः, ततः कथंकारमैदंयुगीनमुनीनां सामायिकादिनां सफलत्वं सङ्गच्छते ? अत्रोच्यतेयद्यपि मोक्षावातिस्तु क्षीणकषायाथाख्यातचारित्रेणैव, नाप्युपशान्तकषायाथाख्यातसंयमेन तथापि सामायिकादिचारित्राणामात्मगुणप्रासादारोहणे सोपानकल्पत्वान्न तेषां निष्फलत्त्वम्, यथा सर्वथा प्रासादाधिरोहणं तु निःशेषसोपानमालाधिरोहणेन जायते, परं सर्वसोपानाधिरोहणसामर्थ्याऽभावे यावन्ति सोपानान्यधिरूढानि तावन्ति मूलसंख्यातो हीनानि भवन्ति, एव 55555555< M A फ्र संवरतत्वे यथा ख्यात चारित्रम् ॥ ॥ १०२ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy