________________
धzफ>
यावत्कथिकाच, तत्र ये कल्पसमाप्यनन्तरमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमास्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते यावत्कथिकाः। उक्तश्च ' इत्तरियथेरकप्पे जिणकप्पे आवकहियत्ति' । अत्र स्थविरकल्पग्रहणमुपलक्षणं स्वे कल्पे वेति द्रष्टव्यम् । तत्रेवराणां कल्पप्रभावाद्देवमनुष्यतिर्यग्योनिककृता उपसर्गा सद्योघातिन आतङ्का अतीव विषयाश्च वेदना न प्रादुःषन्ति, यावत्कथिकानां संभवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः संभवन्तीति । उक्तश्च-' इत्तरियाणुवसग्गा आयंका वेयणा न हवंति । आवकहियाण भइया'' इति ।
'सुहुमं तह संपरायं च ' इति, तत्र संपरैति पर्यटति संसारमनेनेति संपरायः क्रोधादिकपायः, सूक्ष्मो लोभांशमात्रावशेषतया सम्परायो यत्र तत्सूक्ष्मसंपरायम् । इदमपि ससंक्लिश्यमानकविशुद्ध्यमानकभेदाविधा, तत्रोपशमश्रेणिं प्रच्यवमा| नस्य संक्लिश्यमानकं, श्रेणिमारोहतो विशुद्धथमानकम् ।।
तत्तो य अहक्खायं खायं सबंमि जीवलोगम्मि' इति, ततः सूक्ष्मसंपरायचारित्रानन्तरं सर्वस्मिञ्जीवलोके अकपायत्त्वेन ख्यातं प्रसिद्धं अथाख्यातं चारित्रं भवति, अथ शब्दोत्र याथातथ्ये, आङ् अभिविधौ, आसमन्ताद्याथातथ्येन ख्यातं कषायोदयाऽभावतो निरतिचारत्त्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमिति । 'जं चरिऊण सुविहियावचंति अयरामरं ठाणं' इति यदथाख्यातचारित्रं चरित्वा एकाग्रप्रणिधानेनाराध्य सुविहिताः सम्यग्दर्शनज्ञानचरणाराधनपरा जिनाज्ञानुयायिनोजरामरं जन्मजरामरणवर्जितं महानन्दपदं व्रजन्ति गच्छन्तीत्यर्थः॥ एतदपि उपशामकक्षपकापेक्षया
-5
-3>ya