________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१.१॥
संवरतच्चे परिहारविशुद्धिचारित्रम् ॥
卐卐>549-->
सहस्रं । पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः। अन्यच्च यदा पूर्वप्रतिपन्नः कल्पमध्यादेको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथक्त्वं वा । अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः, तद्यथाद्रव्याभिग्रहाःक्षेत्राभिग्रहाःकालाभिग्रहाःभावभिग्रहाश्च विचित्रा भवन्ति, तत्र परिहारविशुद्धिकस्येमेऽभिग्रहान भवन्ति, यस्मादेतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते । प्रव्रज्याद्वारे-नासावन्यं प्रव्राजयति कल्पस्थितिरेप इति कृत्वा । उक्तश्च:-' पव्वाइए न एसो अन्नं कप्पट्ठिइत्ति काऊणं' । उपदेशं पुनर्यथाशक्ति प्रयच्छति । मुंडापनद्वारेऽपि नासावन्यं मुण्डापयति, अथ प्रव्रज्याऽनन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद्गृहीतमिति किमर्थं पृथगूद्वारं? तदयुक्तं, प्रव्रज्याऽनन्तरं नियमतो मुंडनस्याऽसंभवात् , अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुंडनायोगादतः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे-मनसाऽपि मूक्ष्ममप्यतिचारमापनस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एप कल्प एकाग्रताप्रधानस्ततस्तद्भङ्गे गुरुतरो दोष इति । कारणद्वारे कारणं नामालम्बनं तत्पुनः सुपरिशुद्धं ज्ञानादिकं तच्चास्य न विद्यते येन तदाश्रित्याऽपवादपदसेविता स्यात् , एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथोक्तविधिना समापयन्महात्मा वर्तते । निष्प्रतिकर्मताद्वारे-एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि व्यसने समापतिते द्वितीयपदं सेवते । भिक्षाद्वारे-भिक्षाविहारक्रमश्चास्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चाऽस्य अल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाप्येकोऽविहरबपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीययोगान् विदधाति । एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इवरा
105552059-
॥१०१॥