________________
द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विप्रकारः, जघन्य उत्कृष्टश्च, तत्र गृहस्थपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कृष्टतो देशोनपूर्वकोटीप्रमाणौ । आगमद्वारे;-अपूर्वागमं स नाऽधीते, यस्मात्तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायोऽनुस्मरति। वेदद्वारे-प्रवृत्तिकाले नपुंसकवेदःपुरुषवेदो वा भवेत् , न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवात् । अतीतनयमधिकृत्य पुनः प्रतिपन्नश्चिन्त्यमानः सवेदो भवेदवेदो वा, तत्र सवेदः श्रेणिपतिपत्त्यभावे उपशमश्रेणिपतिपत्ती वा क्षपकश्रेणिप्रतिपत्तौ च्ववेद इति । कल्पद्वारे स्थितकल्प एवायं, नास्थितकल्पे ठिइकप्पम्मि वि नियमा" इति वचनात् , तत्राचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्यु शय्यातरपिण्डादिष्वस्थितेषु कल्पेषु स्थिताः शेषेषु चाऽऽचेलक्यादिषु पदस्वस्थिताः तत्कल्पोऽस्थितकल्पः । लिङ्गद्वारे-नियमतो द्विविधेऽपि लिङ्ग भवति, तद्यथा द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात । लेश्याद्वारे-तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनःसर्वास्वपि कथश्चिद्भवति, तत्रापीतरास्वविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्त्तते, तथाभूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किं तु स्तोकं, यतः स्ववीर्यवशाज्झटित्येव ताभ्योव्यावर्त्तते, अथ प्रथमत एव कथं प्रवर्तते ? कर्मवशात् । ध्यानद्वारे-धर्मध्यानेन प्रवर्त्तमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः । गणद्वारे-जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसङ्ख्याः । पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः । पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः