SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ संवरतत्त्वे श्रीनवतत्त्व सुमङ्गलाटीकायां | सामायि कादि ॥१०॥ चारित्रम् ॥ zsg>卐卐卐卐 महाविदेहेषु, न चैतेषु संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् । कालद्वारे-अवसर्पिण्या तृतीये चतुर्थे वारके जन्म, सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावः पुनस्तृतीये चतुर्थे वा, नोत्सर्पिण्यवसर्पिणीरूपे चतुर्थारकप्रविभागे काले न सम्भवन्ति, महाविदेहे तेषामसम्भवात् । चारित्रद्वारे-संयमद्वारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समानपरिणामत्त्वात् , ततोऽसंख्येयलोकाकांशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योवं यानि संयमस्थानानि तानि परिहारविशुद्धियोग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असंख्येयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि तेष्वपि सम्भवात् । उक्तञ्च-"तुल्ला जहन्नठाणे संजमठाणाइ पढमबिइयाणं । तत्तो असंखलोए गंतुं परिहारियट्ठाणा ॥९॥ तेवि असंखा लोगा अविरुद्धा चेव पढमबीयाणं । उवरिपि तो असंखा, संजमठाणाउ दुण्डंपि"॥२॥ अत्र उवरिंपि' इति द्वितीयगाथार्द्धन परिहारविशुद्धियोग्यसंयमस्थानेभ्य ऊर्ध्वमपि यानि संयमस्थानानि तेषां योग्यता प्रतिपादिता, तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु, यदा वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेपेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिककल्पसमाप्त्यनन्तरमन्येष्वपि च चारित्रेषु सम्भवात , तेष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नचात् । उक्तश्च" सट्ठाणे पडिवत्ति अनेसु वि हुन्ञ्ज पुत्वपडिवन्नो । तेसु वि वटुंतो सो तीयनयं पप्प वुच्चईउ ।। १ ।। तीर्थद्वारेःपरिहारविशुद्धिको नियतम्तीर्थे प्रवर्त्तमान एव भवति, न तूच्छेदेऽनुत्पत्त्यां वा तदभावे जातिस्मरणादिना । पर्यायद्वारे-पर्यायो 53卐209-- 卐> ॥१०॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy