SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ N A V A - - - T A S U M त्तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते, अयमेव च तेषां परिहारकाणामत्रकल्पे क्वचित् स्खलितादौ प्रायश्चित्तं दातुं प्रमाणं, यत् प्रायश्चित्तमसौ ददाति तत्तैर्वोढव्यमिति भावः एवमनुपरिहारिकाणामप्यपराधपदमापन्नानामयमेव विद्वान् प्रायश्चित्तदाने प्रमाणम्, यदुक्तं बृहत्कल्पभाष्येः- “ पमाणं कप्पट्टिओ तत्थववहारं ववहरत्तिए । अणुपरिहारियाणं पि पमाणं होइ से 5 विऊ " ॥ १ ॥ अत्र “ व्यवहारं " प्रायश्चित्तं ' व्यवहतुं' दातुमिति भावः । निर्विशमानकानां चाऽयं तपोविशेषः, ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थषष्ठाष्टमभक्तलक्षणम्, पारणके चाऽऽचाम्लं, शिशिरे षष्ठाऽष्टमदशमभक्तरूपं जघन्यमध्यमो - त्कृष्टं तपः, पारणके चाऽऽचाम्लं, वर्षासु अष्टमदशमद्वादशभक्तस्वरूपं तपो जघन्यमध्यमोत्कृष्टतया विज्ञेयम्, पारणके त्वाचा- A म्लमेव, तत्साहाय्यकारिणश्चानुपरिहारिणो नियताऽऽचाम्लभक्ताः, कल्पस्थितो वाचनाचार्योऽपि नियताऽऽचाम्लभक्त एव । 5 इत्थं च षण्मासान् कृत्त्वा परिहारिणोऽनुपरिहारित्वं प्रतिपद्यन्ते, अनुपरिहारिणश्च परिहारिणो भवन्ति, तेऽपि षण्मासांस्तत्तपो विदधति । पश्चात्कल्पस्थित एकाक्येव षण्मासावधिकं तत्तपः प्रतिपद्यते, तस्य च शेषाऽष्टकमध्यादेव एकः कल्पस्थितो भवति, अन्ये निःशेषा एको वा अनुपरिहारित्वं प्रतिपद्यते ।। अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भवन्ति ? उच्यते, st क्षेत्रादिनिरूपणार्थं विंशतिद्वाराणि तद्यथा; - क्षेत्रद्वार, कालद्वारं, चारित्रद्वारं, तीर्थद्वारं, पर्यायद्वारं, आगमद्वारं, वेदद्वारं, कल्पद्वारं, लिङ्गद्वारं, लेश्यीद्वारं, ध्यानंद्वारं, गणेद्वारं, अभिग्रैहद्वारं, प्रवज्याद्वारं, मुंडापनद्वारं, प्रायश्चित्तविधिद्वारं, कारणद्वारं, निष्प्रतिकर्म्मद्वारं, भिक्षाद्वीरं, बन्धद्वारं च । तत्र क्षेत्रद्वारे द्विधा मार्गणा - जन्मतो सद्भावतश्थ, यत्र क्षेत्रे जातस्तत्र जन्मतो मागणा यत्र च कल्पे स्थितो वर्त्तते तत्र सद्भावतः । तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चस्वैश्वतेषु न तु 57555LA N G I-
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy