SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्व सुमङ्गलाटीकायां ॥ ९९ ॥ • > - -> < T ननु प्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्राऽपि सर्वसावद्ययोगविरतिसद्भावात्, केवलं छेदादिविशुद्धिविशेषैविशेष्यमाणमर्थतः शद्धान्तरतश्च नानाच्वं भजते, ततो यथा यावत्कथिकं सामायिकं छेदोपस्थापनं च परमविशुद्धिविशेषरूपसूक्ष्मसंपरायपरिहारविशुद्धिप्रभृतिचारित्रावाप्तौ न भङ्गमास्कन्दति, तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपछेदोपस्थापनावाप्तौ निर्बाधमेव, यदि हि प्रव्रज्यापरित्यागः स्यात्तर्हि तद्भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषाऽवाप्तौ, उक्तञ्चः – उन्निक्ख- M मओ भङ्गो जो पुण तं चिय करेइ सुद्धयरं । सन्नामेत्तविसिङ्कं सुहुमंषि-व तस्स को भङ्गो ” ॥ १ ॥ A 'छेओवडावणं ' इति, तत्र पूर्वपर्यायस्य छेदेन उपस्थापना महाव्रतेष्वारोपणं यत्र चारित्रे तच्छेदोपस्थापनं भरतैरवतप्रथमचरमतीर्थकरतीर्थ एव नान्यत्र । तच्च द्विधा - सातिचारं निरतिचारं च, तत्रानतिचारमित्यरसामायिकस्य शैक्षकस्य यदारोप्यते, तीर्थान्तरं वा संक्रामतः साधोर्यथा श्रीपार्श्वनाथतीर्थाद्वर्द्धमानखामितीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्तौ, सातिचारं पुनर्यन्मूलगुणघातिनः पुनर्व्रतोच्चारणम् । उक्तञ्च " सेहस्स निरइयारं तिथंतरसंकमेव तं होज्जा । मूलगुणधारणो साइयारमुभयं च ठियकप्पे " ॥ १ ॥ ' उभयं च ' इति सातिचारं निरतिचारं स्थितकल्प इति प्रथमपश्चिमतीर्थकरतीर्थकाल इत्यर्थः U N 5 G संवरतच्चे सामायि कादि चारित्रम् ॥ ' परिहारविसुद्धीयं ' इति तत्र परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धिर्यस्मिँश्चारित्रे तत् परिहारविशुद्धिकं तच्च द्विधा निर्विशमानकं निर्विष्टकायिकञ्च तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायिकाः, तदव्यतिरेकाच्चारित्रमपि एवमुच्यते । इह नवको गणः, तत्रैकः कल्पस्थितो वाचनाचार्यो गुरुकल्पः, चत्वारो L निर्विशमानकास्तपःप्रपन्नाश्चत्वारश्चानुचारिणो वैयावृत्यकरकल्पा, यद्यपि सर्वेऽपि श्रुतातिशयसंपूर्णास्तथापि तथा कल्पत्वा एड ॥ ९९ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy