SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ z卐 निर्जरातत्वे मैत्र्यादिभावनामा > श्रीनवतत्त्व IA प्रशस्ताऽप्रशस्तदेहादिनिवृतिः, गोत्रादुच्चनीचकुलोपपत्तिः, अन्तरायादलाभादिः, एवं कर्मविपाकचिन्तापरस्याऽऽश्रवनिरोधार्थ सुमङ्गला- यत्प्रणिधानं तत्तृतीयं धर्मध्यानमिति ३ ।। अथ चतुर्थ संस्थानविचयसंज्ञकं धर्मध्यानमुच्यते-संस्थानं आकारविशेषो लोकस्य टीकायां- द्रव्याणां च । तत्र लोकेऽधोलोकस्तावदधोमुखमल्लकसंस्थानः, स्थालाकृतिस्तिर्यग्लोकः, ऊर्ध्वलोको मल्लकसंपुटाकारकः । तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः। जम्बूद्वीपं विहायाऽसंख्येया द्वीपसमुद्रा वलयाकृतयः धर्माऽधर्माऽऽकाशपुद्गलजी॥११॥ वास्तिकाया अनादिनिधनसनिवेशमाजो व्योमप्रतिष्ठाः। धर्माऽधम्नौ लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणमयोगोलसंस्थानञ्च, पुद्गलद्रव्यं शरीरादिकार्य नानासंस्थानं, जीव उपयोगलक्षणोऽनादिनिधनः शरीरादर्थान्तरभूतो नीरूपः कर्मणां कर्ता उपभोक्ता शरीराकृतिः । इत्थं संस्थानाद्यन्वेषणपरं यत्प्रणिधानं तत्संस्थानविचयाऽऽख्यं चतुर्थ धर्मध्यानमिति॥ संस्थानाद्यन्वेषणे को लाभः ? इत्युच्यते-पदार्थवर्तिगुणसंस्थानादिस्वरूपपरिज्ञानात् तत्त्वावबोधः तत्त्वावबोधाच क्रियानुष्ठानं, तदनुष्ठानान्मोक्षावाप्तिरिति ॥ . आज्ञाविचयादिभेदैर्यथा धर्मध्यानस्य चातुर्विध्यं तद्वत् प्रकारान्तरेण मैत्र्यादिभावनाप्रकारैः पिण्डस्थादिध्येयप्रकारैश्च धर्मध्यानं चतुर्विधम् । तद्यथा-उपकार्यनुपकारी वा कश्चिदपि जन्तुर्दुःखनिबन्धनानि पापानि मा कार्षीत् , मा च भूत कोऽपि दुःखितः; देवमानुषतिर्यनारकपर्यायाऽऽपन्नं सकलमपि जगन्मोक्षमवाप्नुयादिति ध्यानपरायणा भावना मैत्रीशन्देन निगद्यते, नहि कस्यचिदेकस्य मित्रं मित्रशब्देनोच्यते, व्याघ्रादेरपि स्वापत्यादौ मैत्री दर्शनात् , तस्मादशेषसत्त्वविषया मैत्री यस्यां विद्यते सा मैत्रीभावना कषायोपशमक्षयफललक्षणेति । यदुक्तं योगशास्त्रे:-" मा कार्षीत् कोऽपि पापानि, मा च भूत ॥११४॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy