SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ >卐z > कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमैत्री निगद्यते" ॥१॥ प्राणिवधादिदोषनिवृत्तानां वस्तुतस्याऽवलोकिन्वं ज्ञानक्रियालक्षणोभयमोक्षाङ्गप्रवृत्तानां मुनिपुङ्गवानां क्षायोपशमिकादिभावाऽऽपन्नेषु शमदमौचित्यगाम्भीर्यधैर्यादिगुणेषु किं वा तथाविधगुणाधारसत्त्वेषु विनयप्रयोगवन्दनस्तुतिवर्णवादवैयावृत्यकरणादिभिः सर्वेन्द्रियाभिव्यक्तः पक्षपातरूपो यो मन महर्षः स प्रमोदः, तख्यानपरा भावना प्रमोदभावनेति ॥ उक्तञ्च, “अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनां । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः" ॥२॥ मतिश्रुताऽज्ञानविभङ्गज्ञानबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एच दयापात्रत्वाद्दीनेषु " अहो कुशास्त्रप्रणेतारस्तपस्विनो यदि कुमार्गप्रणयनान्मोच्येरन्, ततो वरम् यतत्रिभुवनगुरुर्मगवानपि उन्मार्गदेशनात् सागरोपमकोटाकोटिंयावद्भवे प्रान्तस्तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशकुवतां गतिः" इत्येवं प्रतिकारपरा बुद्धिः, किश्च नवनवविषयार्जनपूर्वार्जितपरिभोगजनिततृष्णाग्निनादंदह्यमाना हिताहितप्राप्तिपरिहारविपरीतवृत्तयोर्थाजनरक्षणव्ययनाशपीडावन्तोऽनन्तभवाऽनुभूतेष्वपि विषयेष्वसंतृप्तमनसो विषयार्जनभोगतरलहृदयाः कथं नाम प्रशमाऽमृतपुष्करावर्त्तमेषधारया वीतरागदशां नेतुं शक्या इति परोपकारपरा मतिः, किश्च विविधभयहेतुभ्यो भीतमनसो वालवृद्धादयः कथं नामैकान्तिकाऽऽत्यन्तिकभयवियोगभाजनीकरिष्यन्त इति लक्षणो मानसिकपरिणामः, तथा स्वधनदारपुत्रादिवियोगमत्प्रेक्षमाणा मारणान्तिकी पीडामनुभवन्तो मृत्युमुखमधिशयिताः सकलभयरहितेन पारमेश्वरवचनामृतेन सिक्ताः कथमजरामरीकरिष्यन्ते' इत्येवं पूर्वोक्तविविधप्रतिकारपरा या बुद्धिर्न तु साक्षात प्रतिकार एव, सर्वेष्वशक्यप्रतिकारचात् , सा कारुण्यभावना ।। तथा चोक्तं योगशास्त्रे-“दीनेष्वार्सेषु भीतेषु याचमानेषु जीवितम् । प्रतिकारपरा बुद्धि कारुण्यमभिधीयते"॥१॥ 104544240' '- -' < र i>
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy