________________
श्रीनवतत्त्व
सुमङ्गलाटीकायां
॥ ११५ ॥
755
V
A
5
A
T
5
निर्जरातत्वे
U
अभक्ष्यभक्षणाऽपेयपानाऽगम्यगमनमुनिबालस्त्री भ्रूणघातादीनि क्रूरतमकर्माणि कुर्व्वत्सु चतुस्त्रिंशदतिशयुयुक्तदेवाधिदेवानां गुरुयोग्यानुष्ठानाराधनपरगुरुणां च निन्दाकारिषु सदोषमप्यात्मानं शंसन्तीत्येवंशीलेषु पुष्करावर्त्तवारिभिर्मुद्गशैलेष्विव देशना - धर्मध्याभिर्मृदूकर्त्तुमशक्येषु योपेक्षा तन्माध्यस्थ्यमिति ।। तथा चोक्तम् ; क्रूरकर्मसु निःशङ्कं देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ” ॥ १ ॥ आभिमैत्री प्रमोदकारुण्यमाध्यस्थ्यभावनाभिरात्मानं भावयन्महामतिः त्रुटितामपि विशुद्धध्यानसंततिं संधत्ते अतस्तासां धर्मध्यानस्योपकारकत्त्वाद्धर्म्मध्यानान्तर्गतत्वमिति ॥
नम् ॥
अथवा ध्येयभेदापेक्षया पिण्डस्थ - पदस्थ - रूपस्थ - रूपातीताऽभिधं धर्मध्यानं चतुर्विधम् । तत्र सचेतनजिनपिण्डं भावजिनशरीरमाश्रित्य यद्ध्यानं तत्पिण्डस्थम्, पिण्डं शरीरं तत्र तिष्ठतीति पिण्डस्थं ध्येयमिति योगशास्त्रवचनात्, अथवा पिण्डं ध्यातृदेहं तत्रस्थं पिण्डस्थध्यानमिति, येन स्वशरीरवर्त्तिपार्थिवी - आग्नेयी - मारुती - वारुणी - तत्र भूसंज्ञकपश्ञ्चधारणापूर्वकं यद्ध्यानं तत्पिण्डस्थमिति । " नमो अरिहंताणं " इतिध्येयपदानामथवा पदशब्देन कैवल्यादिपदं तत्र तिष्ठन्तीति पदस्थास्तीर्थकरगणधर मुनयस्तेषां ध्यानमथवा पदशब्देनाऽऽगमपदानि तेषां ध्यानं विचारणमिति पदस्थध्यानम् । उक्तञ्च " यत्पदानि पवित्राणि समालम्ब्य विधीयते । तत्पदस्थं समाख्यातं ध्यानं सिद्धान्तपारगैः " ॥ १ ॥ तथा रागद्वेषादिमहामोहविकारैरकलङ्कितं प्रशमरसनिमग्नं योगमुद्रामनोरममन्यतीर्थिकैरपरिज्ञातं जिनेन्द्रप्रतिमाऽप्रतिमरूपं ध्यायन् रूपस्थध्यानवान् भवेत् । तथा चोक्तंः- रागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥ १ ॥ तीर्थिकैरपरिज्ञातं योगमुद्रामनोरमम् । अक्ष्णोरमन्दमानन्दनिःस्यन्दं दददद्भुतम् ||२|| जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः ।
M
A
N55
A
॥ ११५ ॥