SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ zyg> निर्निमेषदृशा ध्यायन रूपस्थध्यानवान् भवेत् " ॥ ३॥ निरञ्जननिराकारचिदानन्दरूपस्याऽमूर्तस्य परमात्मनो यद्रूपवर्जितं ध्यानं तद्रूपातीतम् , आह च:-" अमूर्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम्" ॥१॥ अस्य चतुर्थभेदस्य रूपातीतत्त्वात् शुक्लध्यानान्तर्वर्त्तित्वमपि मन्यते ध्यानकोविदः ।। इत्येवं लेशतः प्रदर्शितं भिन्नभिन्नप्रकारैधर्मध्यानं, विस्तरस्तु योगशास्त्रादाववलोकनीय इति ॥ धर्मध्यानानुप्रवेशपरिकर्माणि भावनादेशकालासनादीनि, तत्र ज्ञानदर्शनचारित्राऽऽख्या भावनाश्च तिस्रः । ब्राने नित्याभ्यासान्मनसः तत्रैव प्रणिधानमवगतगुणसारश्च निश्चलमतिरनायासेनैवं धयं ध्यायति । तथा विगतशङ्कादिशल्यः प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यस्थैर्यप्रभावनायतनाभक्तियुक्तोऽसम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धर्म्य ध्यायति । तथा चरणभावनाधिष्ठितः काण्यपराणि नादत्ते, पुरातननिर्जरणं वा शुभानि सश्चिनुते ततश्चायत्नेनैव धर्मध्यायी भवति तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्यभावनावष्टब्धचेता लीलयैव धर्मध्यायी भवति । देशोऽपि स्त्रीपशुपण्डकलक्षणकण्टकवर्जितो ध्यानयोग्यः, त्यादीनां सद्भावे विघ्नसम्भवात् । कालोऽपि यस्मिन्नेव काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः । आसनं ध्यानयोग्यकायाऽवस्थाविशेषः । यदुक्तम्-"काल: समाधिर्ध्यानस्य, कायावस्था जितासनम् । शुचिनिष्कण्टको देशास्ते च स्त्रीपशुपण्डकाः" ॥१॥ 'भावनादेशकालासनादीनि' इत्यत्रादिशब्दादालम्बनानि वाचनापृच्छनापरिवर्त्तनचिन्तनानि सामायिकाऽऽवश्यकानि च ग्राह्यानि । इत्यादिभिस्साधनैर्धर्मध्यानं वृद्धि प्राप्नोति । तीव्रमन्दादिभेदाः पीतपद्मशुक्लाऽऽख्या लेश्या अस्मिन् ध्याने वर्तन्ते । एतच्च धर्म -卐9- $$7055-5!
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy