SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ निर्जरातत्वे श्रीनवतत्त्व सुमङ्गलाटीकायां॥११६॥ ध्यानम्॥ ध्यानमग्रमत्तसंयतगुणस्थानकमादौ कृत्वा क्षीणमोहं यावत् सम्भवति, न तु ततोर्वाक् ध्यानयोग्यविशुद्धिपर्युदासात् । अग्रे तु विशद्धेरुत्कर्षात् वक्ष्यमाणशुक्लध्यानान्तर्भाव इति । निसर्गाऽधिगमाभ्यामशेषजीवादिपदार्थश्रद्धानं जिनसाधुगुणोत्कीर्तनं प्रशंसाविनयदानानि च धर्मध्यानलिङ्गानि । आनन्तर्यपारम्पर्याभ्यां स्वर्गापवर्गप्राप्तिश्च फलम् ॥ ___अथ शुक्लस्योपक्रमः-तत्र पृथक्त्ववितर्कसविचारं प्रथम, एकस्ववितर्कमविचारं द्वितीयं, सूक्ष्मक्रियमप्रतिपाति तृतीयं, उरसम्मक्रियमनिवर्तीति चतुर्थ शुक्लध्यानमिति । तत्र पृथक्त्वं नानास्वं, वितर्कः श्रुतं, विचारोर्थव्यंजनयोगसङ्क्रान्तिरिति पृथक्ववितर्कसविचारं, परमाण्वादौ एकस्मिन् द्रव्ये उत्पादस्थितिव्ययमूर्सत्त्वाऽमृर्तवादीनां पर्यायाणां द्रव्यार्थिकपर्यायार्थिकादिभिर्विविधनयैः पूर्वविदां पूर्वगतश्रुतानुसारेणेतरेषामन्यथा अर्थव्यञ्जनयोगान्तरसङ्क्रमणयुक्तं यदनुचिन्तनं तदाद्यं शुक्लमिति । अस्मिन्नाद्यमेदे परमाण्वाधेकद्रव्यवर्तिभित्रमिनपर्यायानाश्रित्य पृथक्त्वं, पूर्वगतपूर्वमिन्नान्यतरश्रुतानुसारित्वात् सवितर्कत्वं, अर्थादर्थान्तरे शब्दाच्छब्दान्तरे विवक्षितमनःप्रभृतियोगाद्वागादियोगे सङ्क्रमणस्य च जायमानत्वात् सविचारत्वम् । एवं त्रीण्यपि विशेषणानि स्वधिया परिभावनीयानि । ननु अर्थव्यंजनयोगान्तरेषु सङ्क्रमणसम्भवात् कथं मनःस्थैर्य ? तद १ सालम्बननिरालम्बनगौणमुख्यधर्मध्यानमाश्रित्यैतदप्रमत्तगुणस्थानकं भाव्यमन्यथा “ आर्त्तरौद्रं भवेदन मन्दं धयं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसम्भवम् ॥१॥ अस्तित्त्वानोकषायाणामत्रार्तस्यैव मुख्यता। आझाद्यालम्बनोपेतधर्मध्यानस्य गौणता ॥ २॥ यावत्प्रमादसंयुक्तस्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्बमित्यर्जिनभास्कराः॥३॥” इत्यादिगुणस्थानकक्रमारोहग्रन्थोक्तयः कथं संगच्छेरन् ? इति स्वधिया समाधेयम् ।। ॥११६॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy