SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ७卐 -93-55卐>5z भावाच्च कथं ध्यानत्वं ? उच्यते;-अर्थादिसङ्क्रान्तिसत्त्वेऽपि एकद्रव्यविषयत्त्वे मनःस्थैर्यसम्भवाश्यानत्त्वमविरुद्धम् । अथ द्वितीय; एकत्त्वं नानात्वाऽभावः, वितर्कः श्रुतं, अविचारं अर्थव्यञ्जनयोगसङ्क्रान्तिराहित्यम् ॥ पूर्वविदां पूर्वगतश्रुतानुसारेणेतरेषां पूर्वभिन्नश्रुतानुसारेण अर्थव्यञ्जनयोगेष्वसङ्क्रमणरूपमेकपर्यायविषयं यख्यानं तदेकत्ववितर्कमविचारम् । आद्यभेदे तावत् एकद्रव्यवििवविधपर्यायगोचरं योगादिसङ्क्रमणोपेतं श्रुतानुसारि ध्यानमुक्तं, अस्मिन् तु विशुद्ध्यवाप्तस्थैर्यगुणयोगेन एकद्रव्यवर्तिविवक्षितैकपर्यायविषयं योगादिसङ्क्रान्तिवर्जितं श्रुतानुसारिध्यानमुक्तमतो प्रथमभेदाऽपेक्षयाऽस्य वैशिष्ट्यमिति । मोक्षगमनप्रत्यासनकाले सयोगिकेवलिनो योगनिरोधावस्थायां सूक्ष्मबादरमनोयोगवाग्योगद्वयनिरुद्धे सति सूक्ष्मपरिस्पन्दलक्षणोच्छ्वासनिःश्वासादिका यत्र क्रिया तत् सूक्ष्मक्रिय, ततः प्रतिपातस्याऽभावादप्रतिपाति चेति सूक्ष्मक्रियमप्रतिपातिसंझं तृतीयं शुक्लध्यानम् ॥ द्वितीयभेदाऽपेक्षया गुणस्थानविशुद्धियोगनिरोधाप्रतिपातित्त्वादिभिरस्य वैशिष्ट्यम् । मेरुगिरिवदकम्पनीयस्य शैलेशीकरणसम्पन्नस्याऽयोगिनो यद्ध्यानं तत्तुरीयमुत्सनक्रियमप्रतिपाति परमशुक्लश्चैतत् ।। भेदचतुष्केऽस्मिन्नयं विशेषः, आधं पृथक्त्ववितर्क सविचारं मनःप्रभृत्येकयोगभाजां योगत्रयभाजां वा, तच्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्त्ववितर्कमविचारं मनःप्रभृत्यन्यतरैकयोगानां, योगान्तरे सङ्कमाऽभावात् । तृतीयं सूक्ष्मक्रियमनिवर्चि तत् सूक्ष्मे काययोगे, न तु योगान्तरे । चतुर्थ व्युपरतक्रियमप्रतिपाति शैलेशीगतानामयोगिकेवलिनां भवति ॥ ननु मनःस्थैर्यलक्षणं ध्यान, शुक्लध्यानोपरितनभेदद्वये च मनसोऽभावः, अमनस्कत्वात्केवलिनः कथं ध्यानं भवति ? उच्यते-यथा छअस्थस्य मन:स्थिरं सत् ध्यानं भण्यते तथा केवलिनोऽपि सुनिश्चलः कायो योगत्वाऽव्यभिचाराद् ध्यानशब्दाभिधेयो भवति । ननु चतुर्थे शुक्लध्याने काय yzs09-! >म
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy