SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ >y निर्जरातचे श्रीनवतत्त्व मुमालाटीकायां॥११७॥ < ध्यानम् ॥ > योगस्यापि निरुद्धत्त्वादसौ पूर्वोक्तोऽर्थो विरुध्यते, कथं तत्र ध्यानशब्दवाच्यता ? इत्यत्राह;-यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाऽभ्यासाद्धाम्यति, तथा मनःप्रभृतिसर्वयोगोपरमेऽपि अयोगिनो ध्यानं भवति, तथा यद्यपि द्रव्यतो योगा न सन्ति तथापि जीवोपयोगरूपभावमनःसद्भावादयोगिनो ध्यानम् । यद्वा ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वाझ्यानं, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते, भवति ह्यस्य भवोपग्राहिकर्मनिर्जरा । अथवा शब्दार्थबहुत्त्वाझ्यानं, यथा हरिशब्दस्यार्कमर्कटादयो बहवोर्थाः, एवं ध्यानशब्दस्यापि, तथाहि-"ध्य चिन्तायां, ध्य काययोगनिरोधे, ध्य अयोगित्त्वेऽपि "। बदन्ति हि;-"निपातश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्" ॥ १॥ इति । जिनागमाद्वाऽयोगिनोऽपि ध्यानं, यदाह;-"आगमश्चोपपत्तिश्च सम्पूर्ण दृष्टिलक्षणं । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ ___ आद्यं शुक्लध्यानं अपूर्वकरणगुणस्थानकमादौकृत्वा क्षीणमोहं यावत् भवति, द्वितीय क्षीणमोहगुणस्थाने वर्त्तते, 'पूर्वविदः' (त. ९.४०) इति सूत्रभाष्यवृत्तिप्रामाण्येन उपशान्तमोहक्षीणमोहयोरुभयस्यापि तच्च पूर्वविद एव न तु एकादशाङ्गविद इति। द्वितीयभेदादनु तृतीयादर्वाक केवलज्ञानं सञ्जायते, तृतीयं सूक्ष्मक्रियमप्रतिपाति योगनिरोधकालीनं, तच्च आयुर्वेदनीयादीनां विषमस्थितिसत्ताकस्य केवलिनः केवलिसमुद्धाताऽनन्तरं जायते। चतुर्थ तु शैलेशीकरणावस्थायां पञ्चहस्वाक्षरकालमिति ।। लेश्याश्चात्र विशुद्धपीतपद्मशुक्लाऽऽख्या अवगन्तव्याः तत्राप्यन्त्यभेदद्वये शुक्लैव । क्षपकोपशामकैकान्यतरश्रेणिसमारोहः, १-पूर्वविदः' इति तत्वार्थसूत्रवृत्तौ अनुवृत्तस्य · उपशान्तक्षीणकषाययोश्च' इतिपदस्य तात्पर्य धर्मध्यानगुणस्थानचिन्ताव | गौणमुख्यध्यानविषयमाश्रित्य मुख्यध्यानगोचरमवगन्तव्यमन्यथाऽत्रापि गुणस्थानप्रभृतिग्रन्थोक्तयो विरुध्येरनिति ॥ >yyyyy - >卐 - < ॥११७n >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy