Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
5555555
(
A
उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकार्हमिति ४ ॥ व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमनसावद्यस्वप्नदर्शननौसन्तरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः । तथाविधदोषसद्भावे आलोचनायां दशविंशतिसंख्याकलोकोद्योतकरप्रमुखकायोत्सर्गप्रदानं चित्तविशुद्ध्यर्थमिति भावः ५ ॥ तपस्तु छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित्तपसा विशुद्धिर्भवति तत्तद्देयमासेवनीयं च ६ ।। छेदस्तपसा, दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् ७ ॥ मूलं महाव्रतानां मूलत आरोपणं ८ ॥ तथा अवस्थाप्यत इत्यवस्थाप्यस्तनिषेधादनवस्थाप्यस्तस्य भावोऽनवस्थाप्यता, दुष्टतरपरिणामस्य अकृततपोविशेषस्य व्रतानामारोपणम् येन पुनस्साघर्मिकादिस्तेयप्रहारादिप्रतिसेवितेन उच्थापनाया अप्ययोग्यः किञ्चित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपश्चरणं भवति, पश्चाच्च चीर्णतपस्तद्दोषात् परतो व्रतेषु स्थाप्यत इति विशिष्टकालं यावदुपस्थापयितुमयोग्यत्वादनवस्थाप्य इत्यर्थः । परस्परेण पुरुषयोर्वेदविकारकरणं, पञ्चमनिद्रावशवर्त्तत्वम्, कषायतो विषयतश्च क्रमेण राजवधराजदारसेवाप्रमुखदुष्टातिकरणं, तीर्थकराद्याशातनाकरणं चेत्यादिदुष्टतमपरिणामे सति समयोक्तेन चतुर्थादिना तपसा षण्मासादिना द्वादशवर्षान्तेन कालेन अतिचारपारं गच्छति, ततश्चाऽतिचारपारगमनाऽनन्तरं राजप्रतिबोधादिप्रवचनप्रभावनातः प्रव्राज्यते नान्यथेति पाराश्चितप्रायश्चितम् | तत्वार्थादौ अनवस्थाप्यपाराश्चितयोरेकविषयत्वेन संख्यातच्चादालोचनादिनव भेदाः प्रायश्चित्तस्य । एतच्च छेदपर्यन्तं प्रायश्चितं व्रणचिकित्सातुल्यं पूर्वसूरिभिरभिहितं, तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुधियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पच्चात्, द्वितीये तु लग्नोद्धृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते, तृतीये तु दूरतरगतशल्ये शल्योद्धारम
UA5N5OSALS

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376