Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 10
________________ महोपनिषद् (मङ्गलम्) अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬 श्रीवर्द्धमानमानम्य जिनं श्रीवर्द्धमानकम् / सूरीन्द्रं हेमचन्द्रं च चन्द्रचन्द्रिकया समम् // कतिपयेषु सूक्तेषु महोपनिषदो नवाम् / अध्यात्मदर्शनां कुर्वे, वृत्तिमध्यात्मदर्शनाम् // इह हि मोक्षार्थं यतमाना अप्यनल्पाः सत्त्वाः संसारमेवानुपरिवर्तन्ते, सम्यङ् मोक्षस्वरूपस्यैवानवगमादिति कारुणिक | उपनिषत्कार आदौ मोक्षस्वरूपमेवोपन्यस्यति अशेषेण परित्यागो, वासनाया य उत्तमः / मोक्ष इत्युच्यते सद्भिः, स एव विमलक्रमः // 2-39 // रागादितिमिरोपप्लवोपप्लुतान्तश्चक्षुषोऽतत्तदर्शनं वासना / तत्त्वतस्तद्रूप एव संसारः / अतस्तत्त्यागरूपत्वं मोक्षस्योपपन्नमेव, अन्वाह-वासना एव संसार इति सर्वा विमुञ्च ताः / तत्त्यागो वासनात्यागात्, स्थितिरद्य यथा तथा - इति (अष्टावक्रगीतायाम् ), अन्यत्रापि - वासनाप्रक्षयो मोक्षः - इति (विवेकचूडामणौ)। स एव - वासनात्यागात्मको मोक्ष एव, विमलक्रमः - फले हेतूपचारान् नैर्मल्यानुगुणाभियोगः, शिष्टस्य सर्वस्याप्यभियोगस्य मालिन्यहेतुत्वात् / तस्मात्

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 142