Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 66
________________ महोपनिषद् अध्यात्मदर्शना 90041000000000001 पारमार्थिकज्ञानस्वरूपत्वाद् ब्रह्मण इत्याशयः / एवम् - उक्तरीत्या, ब्रह्मपरिज्ञानादेव-स्वस्वरूपावगमादेव, उपायान्तराणामपि वस्तुत एतदुपायत्वेन पारिशेषन्यायादस्यैवोपायत्वसिद्धेः, मर्त्यः - मनुष्यः, भूयो भूयो मृत्युगोचरतां गच्छन् सर्वो वाऽपि संसारी जीवः, अमृतो भवेत्, ब्रह्मपरिज्ञानपीयूषपरिणतेस्तत्पर्यवसानत्वात् / युक्तं चैतत्, यदज्ञानेन यत्प्रसूतिस्तज्ज्ञानस्य तन्निवर्तकत्वस्य नैसर्गिकत्वात्, तथा चोक्तम् - यदज्ञानाज्जगज्जातं यद्विज्ञानाद्विलीयते - इति (अध्यात्मप्रदीपिकायाम्) / ननु च कथन्नामाऽऽत्मज्ञानमात्रेण भवान्त इति चेत् ? अत्राह भिद्यते हृदयग्रन्थि-श्छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे // 4-82 // हृदयग्रन्थिः - हृद्गतघनरागादिपरिणामः, भिद्यते - निशातपरशुनिहतफलकवद् भेदमापद्यते, तथा सर्वसंशया: - कृत्स्नतत्त्वाऽऽरेकाः, छिद्यन्ते - असिप्रहततन्तुवच्छेदगोचरीभवन्ति, फलशेषमाह अस्य - शुद्धात्मस्वरूपसाक्षात्कर्तुः, कर्माणि च क्षीयन्ते, निरिन्धनानलवत्तदेकगतिकत्वात्तेषाम्, कदा नु भवत्येतदत्यद्भुतमित्याह - तस्मिन् परावरे दृष्टे सति, तथा च तत् परात्परं तत्त्वं यदा दृश्यते तदा तद् घटाकोटिमाटीकते, उक्तञ्च - तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय - इति ( यजुर्वेद)। सर्वोऽपीतरपदार्थसार्थगोचरो रागः परमतत्त्वादर्शनहेतुकः, अतस्तद्दर्शने सति FREEEEEEEEEEEEEEE

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142