Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 114
________________ महोपनिषद् मनोऽपि त्यज, तस्यापि त्वत्स्वरूपसाधने करणमात्रतया त्वत्स्वरूपत्वायोगात्, व्यतिरिक्तत्वात् / इत्थञ्च वासनां वासितारं च, प्राणस्पन्दनपूर्वकम् / समूलमखिलं त्यक्त्वा, व्योमसाम्यः प्रशान्तधीः // 6-7 // हृदयात्सम्परित्यज्य, सर्ववासनपङ्क्तयः / यस्तिष्ठति गतव्यग्रः, स मुक्तः परमेश्वरः // 6-8 // व्योमसाम्यः, वासनादितत्तदुपाधिविगमे गगनसादृश्यस्यैवावशिष्टत्वात्, सत्तामात्रत्वयोगात्, स चैवम्भूतो मुक्त | एव, एतदन्यत्तत्स्वरूपाभावात्, अत एवासौ परमेश्वरः, स्वातन्त्र्यावाप्ततत्पदत्वात्, यदुक्तम् - स्वातन्त्र्यात्सुखमाप्नोति 9 स्वातन्त्र्याल्लभते परम् / स्वातन्त्र्यान्निवृत्तिं गच्छेत् स्वातन्त्र्यात् परमं पदम् - इति (अष्टावक्रगीतायाम्) / तस्मात् यदस्तीह तदस्तीह, विज्वरो भव सर्वदा / यथाप्राप्तानुभवतः, सर्वत्रानभिवाञ्छनात् // 6-14 // यदस्तीह किञ्चिदपि शीतोष्णादिप्रयुक्तं सुखादि, तदस्तीह, सदसत्करणेऽप्रत्यलत्वात्तव, तस्मात् सर्वदा - मरणान्तोपसर्गोपनिपातादिकालेऽपि, विज्वरः - आत्माश्रितकर्तृत्वमतिलक्षणज्वरविनिर्मुक्तो भव, तत्त्वतस्तन्मात्रपर्यवसितत्वाद् 學得离强离魯魯魯魯萬萬萬萬萬萬萬萬萬萬萬

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142