Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना 00000000 वैषम्यमात्रप्रभवत्वात्पुनर्भवस्य / अत एव साम्यशिखरिशिखरदशामेवोपदेष्टि अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने ! / सर्वं त्यक्त्वा मनः पीत्वा, योऽसि सोऽसि स्थिरो भव // 6-5 // किलाकर्तृत्वभावनेऽप्येतद्विभावनकर्तृत्वेन स्वसंवेदने सति स एव कर्तृबुद्ध्यादिलक्षणप्रत्यपायप्रसक्तिः, अतोऽथवेत्यादिनाऽयं पक्षोऽपि प्रदर्शितः / अत एवाभिहितम्-नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन - इति ( अध्यात्मसारे) / तदिदमेव मन:पानं यत्तत्कायवाप्रवृत्त्याः सांसिद्धिकरूपेण भावेऽपि मनसो निरुपलेपता, आत्मपीतत्वेनासत्प्रायतां नीतत्वात् / योऽसीत्यादि, यत्किञ्चिद्भवनेच्छाया एव साध्यपरिपन्थितया त्याज्या सेति भावः, यदाह - मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति / अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् - इति (अष्टावक्रगीतायाम् ) / ततोऽपि शेषस्थिरसमाधानो, येन त्यजसि तत्त्यज / चिन्मनः कलनाकारं, प्रकाशतिमिरादिकम् // 6-6 // शेषस्थिरसमाधानः, कर्त्तव्यादिमतेरपासनान्निश्चलसमाधेरेवावशिष्टत्वात्, येन - कर्त्तव्यत्यागगोचरसूक्ष्ममनसा, त्यजसि - तत्तत्स्थूलमति परिहरसि, तत् प्रकाशतिमिरादिकं कलनाकारं चिन्मनः - चित्स्वरूपसम्प्राप्त्यनुगुणं 10000000 111

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142