Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना मा खेदं भज हेयेषु, नोपादेयपरो भव / हेयादेयदृशौ त्यक्त्वा, शेषस्थः सुस्थिरो भव // 6-28 // हेयेषु खेदं मा भज, वस्तुतस्तव हेयस्यैवाभावात्, तदभावोऽपि गृहीतस्यैवाभावात्, त्यागस्य च ग्रहणपूर्वकत्वदर्शनात्, अत एव नोपादेयपरो भव, त्वदभिमतस्योपादानस्य तत्त्वदृष्ट्या भ्रान्तिमात्रपर्यवसितत्वात्, स्वसंवेद्यमात्रस्वरूपस्य तव त्वद्व्यतिरिक्तविश्वविश्ववस्तुविसरस्याग्राह्यत्वात्, गृहीतस्य च कल्पान्तेऽप्यशक्यमोक्षत्वात्, स्वरूपभूतत्वात्, अन्वाह - यदग्राह्यं न गृह्णाति गृहीतं नापि मुञ्चति / जानाति सर्वदा सर्वं तत् स्वसंवेद्यमस्म्यहम् - इति (नियमसारवृत्तौ)। तस्मात् हेयादेयदृशौ - एतत्त्यजामि, एतत्त्वाददामीति मिथ्याभिप्रायौ, त्यक्त्वा - सर्वसंसारसवितृरूप एत इत्यवगमेन परिहृत्य तदुक्तम् - हेयोपादेयता यावत् संसारविटपाङ्करः - इति (अष्टावक्रगीतायाम् ), शेषस्थः - मिथ्याभिप्रायप्रकरापगमावशिष्ट-स्वरूपमात्रसम्प्रतिष्ठितः, अत एव सुस्थिर: - वासनासमीरागम्यत्वेन सुतरां निश्चलो भव, एतद्भवनस्यैव भवाभाव-रूपत्वेन त्वत्साध्यरूपत्वात्, गुणसमुदयोदयरूपत्वात्तस्य / एतदेव व्यासतो व्याचष्टे

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142