Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् | अध्यात्मदर्शना दर्शनाख्यं स्वमात्मानं, सर्वदा भावयन् भव / स्वाद्यस्वादकसन्त्यक्तं, स्वाद्यस्वादकमध्यगम् // 6-37 // नात्मा दृष्टा, निष्क्रियस्येक्षणक्रियाकर्तृत्वानुपपत्तेः, नापि दृश्यम्, रूपिणः पुद्गला इत्युक्तेश्चर्मचक्षुषा दृश्यमानस्य | सर्वस्यापि पुद्गलतया जाड्यानतिक्रमात्, आत्मनश्च चेतनत्वात्, अतो दर्शनमात्रतैवात्मन उपपद्यते, इत्थमेव साक्षि स्वभावसिद्धेः / एतच्चात्मस्वरूपमपरिभावनेन तिरोभूयते, तद्भावनेन चाऽऽविर्भवतीति तद्भावनोपदेशः / उक्तञ्च - दृष्टदर्शन-दृश्यानि त्यक्त्वा वासनया सह / दर्शनप्रथमाभासमात्मानं केवलं भज - इति ( मैत्रेय्युपनिषदि)। एतदेव प्रकारान्तरेणाह - स्वाद्येत्यादि / भावयेति वर्तते / एवञ्च स्वदनं केवलं ध्यायन्, परमात्ममयो भव / अवलम्ब्य निरालम्ब, मध्ये मध्ये स्थिरो भव // 6-38 // साक्ष्येव परमात्मा, स चोक्तरीत्या दर्शनापराभिधानस्वदनानतिरिक्तः, साक्षितामात्रविग्रहत्वात्, सर्वोपाधिशून्यत्वात् / अयमेव च निरालम्बतत्त्वम्, परनिरपेक्षसत्ताकत्वात्, अत एतदेवाऽऽलम्ब्यम्, प्रतिपातिसमवलम्बनस्य प्रतिपातमात्रपर्यवसायित्वात्, सालम्बनानां प्रतिपातित्वानपायाच्च / मध्ये - देहाद्यशेषपरद्रव्यव्यतिरिक्तान्तर्गतपरमतत्त्वे, स्थिर: -

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142