Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् | अध्यात्मदर्शना नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः / आत्मनो जगतश्चान्तईष्टदृश्यदशान्तरे // 6-36 // नाहम् इत्यनेन देहादिगोचराहङ्कारप्रतिषेधः, नेदम् इत्यनेन विश्वविश्ववस्तुगोचरममकारप्रतिषेधः, एतौ च परमार्थतो मोहप्रतिषेधपरौ दृष्टव्यौ, तन्मन्त्रप्रतिपक्षरूपत्वात्तयोः, अन्वाह - अहं ममेति मन्त्रोऽयं मोहस्य जगदान्ध्यकृत् / अयमेव हि नपूर्वः प्रतिमन्त्रोऽपि मोहजित् - इति (ज्ञानसारे) अनादिकालस्वभ्यस्तो ह्युक्तो मोहमन्त्रः, अतो नाल्पसाधनसाध्यस्तत्प्रतिमन्त्रः, बलवद्विपक्षस्याल्पबलासाध्यत्वदर्शनात्, अत आह - इति - उक्तमोहमन्त्रम्, त्वमचलाचलः, पर्वतवन्निष्पन्दतयेत्यर्थः, ध्यायन् - सन्ततमेवैकाग्रतयानुस्मरन् तिष्ठ - तत्प्रतिकूलनिमित्तानि दूरतः परिहरन् तदनुगुणैकवृत्तिर्भूयाः, यत्र स्थानेनैतत् सम्भवति तदपि दर्शयन्नाह - आत्मन इत्यादि, तथा च किल दृष्टेहमित्यपि चक्षुष्करणकात्म्याध्यवसायतो मिथ्याऽहङ्कारः, किल दृश्यमहमित्यपि जडात्मभावनात्मकतया घोरतराऽहङ्कारः, मत्सम्बन्धि मदीयमेतद्देश्यमित्याकलनमपि ममकारात्मको मोहविकारः, अत उभयान्तरव्यवस्थिता दृङ्मात्रतैव श्रेयसी, एवमेव साक्षितासमायोगाज्जीवन्मुक्तिसञ्चरसम्प्राप्तेविदेहमुक्तिलाभात्, उक्तञ्च - दृष्टदृगात्मता मुक्तिदृश्यैकात्म्यं भवभ्रमः - इति / एतदेव स्फुटतरमाह - 118

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142