Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 127
________________ महोपनिषद् | अध्यात्मदर्शना शोक्या हसन्ति मां तेन, मन:कायौ सुदुःस्थितौ / ब्रुव एकं रहस्यं तन्, मा कोऽपि स्निह्यतामिति // 2 // प्राणेश्वरं विना प्रिया-प्राणसन्धारणं कथम् ? / प्राणान् तु पिबति तस्या, यद् विरहदशोरगी // 3 // विरहाग्निरयं नाग्निः, शीतकं नात्र विद्यते / चन्दनं कुङ्कमं वापि, तापवृद्धिकरं भवेत् // 4 / / फाल्गुनपूर्णिमामात्रे, ज्वाल्यते ज्वलनो जनैः / मच्चित्ते शाश्वत: किन्तु, देहं दहति दाहकः / / 5 / / (वियोगिनी) समतावरहर्म्यसंस्थितं, वचनैकामृतशोभितं शुभम् / 'इदृशः परुषस्तु मैव भू'-रिति चानन्दघनं ब्रुवे प्रभुम् // 6 / / // पद्यरत्नम् 42 // अधुनाऽमरतां यातो, न मरिष्ये कदाप्यहम् / मिथ्यात्वं त्यक्तवान् यस्मात्तस्मान्मे न पुनर्जनुः / / 1 / / रागद्वेषौ जगद्वन्धौ, नाशयिष्याम्यहं ध्रुवम् / अनन्तशो हृतः प्राणी, कालेन तद्धरोऽस्म्यहम् / / 2 / / देहोऽयं नश्वरो नाहं, प्रपत्स्ये मद्गतिं ह्यतः / गत्वरं नश्वरं स्थिरो-ऽस्म्यहं साक्षिस्वभाववान् // 3 // मरणानामनन्तानामज्ञानमेव कारणम् / अवमन्य सुखं दुःखं, ज्ञानमेव श्रयाम्यतः ||4|| 125

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142