Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना भवरोगस्य। नैष ज्वरो विरागभावनाप्रकर्षमन्तरेणापनेतुं शक्य इति तमेवोत्पादयति उत्थितानुत्थितानेता-निन्द्रियारीन् पुनः पुनः / __हन्याद्विवेकदण्डेन, वज्रेणेव हरिगिरीन् // 6-21 // विवेकः - सर्वविषयव्यतिरिक्तस्वस्वरूपसंवेदनम्, स एव दण्डः - शब्दादिविषयप्रवृत्तिप्रतिबन्धकत्वेन हृषीकौघप्रहारप्रहरणकल्पः, तेन पुनः पुनः - बिभेषि यदि संसारान् मोक्षप्राप्ति च काङ्क्षसि / तदिन्द्रियजयं कर्तुं स्फोरय स्फारपौरुषम् - इति (ज्ञानसारे) शास्त्रोपदेशसंस्मरणेन भूयो भूयः, उत्थितानुत्थितान् - 'विषयसान्निध्यतत्स्मृत्यादिना तदभिमुखभावमापन्नान्, वीप्सा सकृदपि तदुपेक्षाप्रतिषेधार्थम्, तल्लेशस्यापि महत्प्रत्यपायप्रसूत्वात्, यदार्षम् - इंदिय-धुत्ताणमहो तिलतुसमित्तं पि देसु मा पसरं / जइ दिन्नो तो नीओ जत्थ खणो वरसकोडिसमो - इति (इन्द्रियपराजये), हन्यात् - निगृह्णीयात् / अत्रैव निदर्शनमाह वज्रेणेव हरिगिरीन इति / अपि च संसाररात्रिदुःस्वप्ने, शून्ये देहमये भ्रमे / सर्वमेवापवित्रं तद्, दृष्टं संसृतिविभ्रमम् // 6-22 // 鲁鲁兽兽兽兽兽兽兽兽兽兽兽兽兽兽萬萬萬萬萬萬 113

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142