Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् / नश्यत्येव न सन्देह-स्तस्मादुद्योगवान् भवेत् // 5-186 // ज्ञानक्रियासमुच्चये सर्वज्ञनिर्दिष्टे यतितव्यं मुमुक्षुणेत्यत्रोपदेशसर्वस्वम्, तदार्षम् - नाणकिरियाहिं मोक्खो - इति (विशेषावश्यकभाष्ये), अन्यत्रापि - उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः / तथैव ज्ञानकर्मभ्यां जायते परमं पदम् // केवलात् कर्मणो ज्ञानान् न हि मोक्षोऽभिजायते / किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः- इति (योगवाशिष्ठे) / अस्यैव - ज्ञानक्रियासमुच्चयस्य सन्तताभ्यासेन स्वरूपसंवेदनविशुद्धेर्यत्पर्यवस्यति, तदाह सर्वत्राहमकर्तेति, दृढभावनयाऽनया / परमामृतनाम्नी सा, समतैवावशिष्यते // 6-2 // कर्तबुद्धिर्हि सर्वाहङ्कारममकारादिवैषम्यैकजननी, तदभावे च तदभावात् पारिशेषनीत्या समतामृतसिद्धिरिति न किञ्चिदनुपपन्नम् / तत्सिद्धौ च यद् भवति, तदाचष्टे समता सर्वभावेषु, याऽसौ सत्यपरा स्थितिः / तस्यामवस्थितं चित्तं, न भूयो जन्मभाग्भवेत् // 6-4 // 萬萬萬萬萬萬萬鲁習習習習習習当当

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142