Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना तत्त्वज्ञान एव यतितव्यमिति / मैवम्, ज्ञानस्यापि क्रियाजननद्वारेण मुक्तिहेतुत्वोपगमात्, वस्तुत उभयसमुच्चयस्यैव सिद्धिसाधकत्वात्, रथन्यायादन्धपङ्गनिदर्शनाच्च, यदागमः - हयं नाणं कियाहीणं हया अन्नाणओ किया। पासंतो पंगुलो दड्डो धावमाणो अ अंधओ // संजोगसिद्धीइं फलं वयंति न हु एगचक्केण रहो पयाइ / अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा - इति ( आवश्यकनियुक्तौ ) / न चैवं-ज्ञानेनैव हि संसारविनाशो नैव कर्मणा - (रुद्रहृदयोपनिषदि) - इत्यादिवचसां का गतिरिति वाच्यम्, तात्पर्यावगमात्सद्गतेरेव सद्भावात् / तथा च 'नैव कर्मणे'त्यत्र ज्ञानशून्यान्धक्रियातुल्यानुष्ठानेन संसारविनाशो नैव सम्भवति, तत्सम्भव एवमेव सर्वेषामपि यत्किञ्चिदनुष्ठानयोगेन सिद्धिप्रसङ्गादित्याशयः / कारुणिका हि शास्त्रकारा यथाशिष्यमुपनिषदमुपदिशन्ति / अतो यो ह्यन्धक्रिययैव तोषमुपगच्छन्नात्मानं मुक्तिसाधकं मन्यते, तम्प्रत्येष उपदेशः, यन्न ज्ञानेन विना तव कल्याणम्, कन्यां विना विवाहासम्भववत्, तदुक्तम् - उपासनां विना ज्ञानात् केवलाच्चेद् विमुक्तता / कन्यां विना विवाहस्स्यात् केवलेन वरेण हि - इति (रामगीतायाम् ) / अतः क्रियाया अपि मुक्तिसाधकत्वमभ्युपेयम् / एतदाशयेनैवाह तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिमा / नश्यति क्रियया विप्र, पुरुषस्य तथा मलम् // 5-185 // 109

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142