Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 98
________________ महोपनिषद् अध्यात्मदर्शना शास्त्रसज्जनसम्पर्क-वैराग्याभ्यासपूर्वकम् / सदाचारप्रवृत्तिर्या, प्रोच्यते सा विचारणा // 5-28 // विचरत्यनयाऽऽत्मा श्रेयःसञ्चर इतिनिरुक्तियोगात् / ननु निरुक्तिसमन्वयेऽपि न ज्ञानरूपमिदम्, अपि तु al क्रियारूपम्, अतो ज्ञानभूमित्वेनास्योपन्यासोऽनुचित इति चेत् ? न, परमार्थतस्तयोरन्योऽन्यानुविद्धस्वरूपत्वात्, तात्त्विकक्रियाया ज्ञानसचिवत्वनियमात्, वास्तवज्ञानस्य च सक्रियत्वध्रौव्यात्, नैतत् स्वमनीषिकयैवोच्यते, उपनिबन्धनमप्यस्य पारमर्षम् - जं सम्मं ति पासहा तं मोणं ति पासहा - इति (आचाराले) / अन्वाह - अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते / आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते - इति (शास्त्रवार्तासमुच्चये)। इत्थञ्च क्रियारूपत्व एषा विशुद्धतरज्ञानभूमिकेति ज्ञेयम् / उक्तद्वयपरिणामरूपां तृतीयामाह विचारणाशुभेच्छाभ्या-मिन्द्रियार्थेषु रक्तता / यत्र सा तनुतामेति, प्रोच्यते तनुमानसी // 5-29 // भवति हि विरागगर्भचिन्तनपरस्य सद्गुरूपदिष्टाकुटिलमार्गेण योगमभ्यस्यतो विषयानुरागहासः, स च तत्त्वतस्तकलङ्कितमानसतानवमेवेति सान्वर्थेयं भूमिका / ज्ञानफलं हि विरागः, अतो फले हेतूपचारादस्या अपि ज्ञानभूमिका

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142