Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मका दर्शना 000000000000033908 अपि च परपरिणतिरेव संसारः, अतस्तदपगमे मोक्ष एवावशिष्येतेति न किञ्चिदनुपपन्नम्। तभ्रंशः - स्वरूपावस्थानावधिक: प्रपात:, अहन्त्ववेदनम्, तद्धेतुत्वात्तदात्मकत्वाच्च तस्य, अहङ्कारोदये हि प्रभवन्ति सर्वेऽपि कषायाः, ततोऽपि परपरिणतिप्रकर्षः, तद्भावे च स्वभावसम्भ्रंश एवेति, अत एवोदितम् - यदा नाहं तदा मोक्षो, यदाऽहं बन्धनं तदा - इति (अष्टावक्रगीतायाम् ) / तस्मात् शुद्धसन्मात्रसंवित्तेः, स्वरूपान्न चलन्ति ये / रागद्वेषादयो भावा-स्तेषां नाज्ञत्वसम्भवः // 5-3 // स्वरूपविचलनमेव रागादि, अतस्तदभावे तदभाव उपपन्न एव / एवं चिच्चिन्तामण्यात्मकात्मस्वभावैकसम्प्रतिष्ठितस्याज्ञत्वासम्भवोऽपि गम्यत एव, सुधासर:सन्निमज्जितस्य धर्मजलासम्भववत् / अपि च स्वभावविच्युतिरेव तत्त्वतोऽज्ञानमित्यस्य तदभावः प्रत्येयः, एतदेव साक्षादाचष्टे यः स्वरूपपरिभ्रंशश्चेत्यार्थ चितिमज्जनम् / एतस्मादपरो मोहो, न भूतो न भविष्यति // 5-4 // यः स्वरूपपरिभ्रंशः - परमानन्दविच्युतिः, एतदेव स्पष्टतरमाह- चेत्यार्थे चितिमज्जनम् - विष्टोपमविषयसार्थे 10000000097795902040330000

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142