Book Title: Jambudwip Pragnaptisutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૧૯
जम्बूद्वीपप्रज्ञप्तिसूत्रे
आत्मरक्षाणाम् |२| जम्ब्वः खलु त्रिभिः शतिकैः चनपण्डैः सर्वतः समन्तात् संपरिक्षिप्ताः, जम्मा: खलु पौरस्त्येन पञ्चाशतं योजनानि प्रथमं वनपण्डम् अवगाह्य अत्र खलु भवनं प्रज्ञसब्, क्रोशमायामेन स एव वर्णकः शयनीयं च, एवं शेपास्त्रपि दिक्षु भवनानि, जम्ब्वाः खलु उत्तरपौरस्त्येन प्रथमं वनपण्डं पञ्चाशतं योजनानि अवगाह्य अत्र खलु चतस्रः पुष्करिण्यः प्रज्ञप्ताः तद्यथा - पद्मा १ पद्मप्रभा २ कुमुदा ३ कुमुदप्रभा ४ ताः खलु व्रोग़माय: मेन अर्द्धक्रोशं विष्कम्भेण पश्चधनुःशतानि उद्वेधेन, वर्णकः, तासां खलु मध्ये प्रासादावतंसकाः क्रोशमायामेन, अर्द्धक्रोशं विष्कम्भेण, देशोनं क्रोशमूर्ध्वमुच्चत्वेन, वर्णकः सिंहासनानि संपरिवाराणि, एवं शेषासु विदिक्षु, गाथा - पद्मा पद्मप्रभा चैव, कुमुदा कुमुदप्रभा । उत्पलगुल्मान लिना उत्पलोज्ज्वला |१| भृङ्गा भृङ्गप्रभा चैव, अञ्जना कज्जलप्रभा । श्रीकान्ता श्रीमहिता श्रीचन्द्रा चैत्र श्रीनिलया |२|
जम्बाः खलु पौरस्त्यस्य भवनस्य उत्तरेण उत्तरपौरस्त्यस्य प्रासादावतंसकस्य दक्षिणेन अत्र खलु कूटं प्रज्ञप्तम्, अष्ट योजनानि ऊर्ध्वं मुच्चत्वेन द्वे योजने उद्वेधेन मूठे अष्ट योजनानि आयामविष्कम्भेण वहुमध्यदेशभागः पड्योजनानि आयामविष्कम्भेण उपरि चखारि योजनानि आयामविष्कम्भेण - पञ्चविंशतिमष्टादश द्वादशैव मूले च मध्ये उपरि च । सवि शेषाणि परिश्यः कूटस्यास्य बोद्धव्यः | १| मृठे विस्तीर्ण मध्ये संक्षिप्तमुपरि तनुकम् सर्वकनकमयम् अच्छम् वेदिकावनपण्डवर्णकः, एवं शेपाण्यपि कूटानि इति ।
जम्ब्वाः खलु सुदुर्गनायाः द्वादश नामधेयानि प्रज्ञप्तानि तद्यथा - सुदर्शना १ अमोघा २ च सुप्रबुद्धा ३ यशोधरा ४ | विदेह जम्बुः ५ सौमनस्या ६ नियता ७ नित्यमण्डिता ८ |१| सुभद्रा च ९ विशाला च १० . सुजाता ११ सुमना १२ अपि च । सुदर्शनायाः Gaer: नामधेयानि द्वादश ॥२॥
जव्वाः खलु अष्टाष्टमङ्गलकानि०, केनार्थेन भदन्त ! एवमुच्यते जम्बूः सुदर्शना २ १ गौतम ! जम्ब्वां खलु सुदर्शनायामनादृतो नाम जम्बूद्वीपाधिपतिः परिवसति महर्द्धिकः, स खलु तत्र चतसृणां सामानिकसाहस्रीणां यावद् आत्मरक्षदेवसाहस्रीणां, जम्बूद्वीपस्य खल द्वीपस्य जम्ब्वाः सुदर्शनायाः अनाहतायाः राजधान्या अन्येषां च बहूनां देवानां च देवीनां च यावद् विहरति सा तेनार्थेन गौतम । एवमुच्यते अदुत्तरं च गौतम ! जम्बूसुदर्शना यावद् अभूत् च ३ ध्रुवा नियता शाश्वती अक्षया यावद् अवस्थिता । का खलु भदन्त ! अनातस्य देवस्य अनादृता नाम राजधानी प्रज्ञप्ता ?, गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य उत्तरेण यदेव पूर्ववर्णितं यमिका प्रमाणं तदेव नेतव्यम्, उपपातोऽभिषेकश्च निरवशेष इति । सू० २३||
अब जिन के नामवाला यह जम्बूद्वीप कहा है वह खुदर्शनानामवाली जम्बू का कथन करने की विवक्षा से उसका अधिष्ठान कहते हैं
હવે જેના નામથી આ જ મૂઠ્ઠીપ કહેલ છે તે સુન્નુના નામવાળા જાબુનું કથન કરવાની વિવક્ષાથી તેનું અધિષ્ઠાન કહે છે,