Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
( १४ ) लिंगावसेसमित्ते जं कीरइ तं पुणो वुच्छं ||१|| वायाइ नमक्कारो हत्थुस्सेहो अ सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वावि ॥ २॥ आई अकुव्र्वतो जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती भत्तिमंताइआ दोसा || ३ ||
१ इत्थम्भूते लिङ्गावशेषमात्रे केवल द्रव्यलिङ्गयुक्ते यक्रियते किमपि तत्पुनर्वक्ष्ये पुनः शब्दो विशेषणार्थः, किं विशेषयति ? - कारणापेक्ष कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये - अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचित्सम्प्रकटसेवी न भवत्यपि अतस्तद्ग्रहणं संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः
25
२ व्याख्या 'वायापत्ति निर्गमभूभ्यादौ दृष्टस्य वाचाभिलापः क्रियते हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुनर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कार त्ति नमस्कारः क्रियते -- हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तर विशेषकरणे पुरुषकार्यभेधः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुसेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसा उत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'संग्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, ' अच्छणं ति त [दूवमानस्त] त्सन्निधावासनं कञ्चित्कालमिति, एष तावदूव हिद्दष्टस्य विधिः, कारण विशेषतः पु स्तम्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंरणं' ति आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थ:
·
३ व्याख्या - ' एतानि 'वाङनमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः 'यथार्ह' यथायोगमर्हद्दर्शिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह - 'अभत्तिमंतादआ दोसा' प्राकृत शैल्याऽभक्त्यादया दोषाः आदिशब्दात् स्वार्थअंशबन्धनादय इति गाथार्थः ॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82