Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
( २० )
“उड्डुं पुच्छा गोयमा ! तओ परेणं उडूं हायमाणे कालसमए तस्थणं जे केइ छक्कायसमारंभविवज्जी, से णं धन्ने पुन्ने वंदे पुज्जे नम॑सणिज्जे "
इति पञ्चमाध्ययने षट्कायसमारम्भविवर्जिनामपि - कथं पूज्यत्वमवादि ! तथा श्रीपञ्चकल्पेऽपि - दंसण नाण चरितं तव विणयं जत्थ जत्तिअं पासे । जिणपन्नत्तं भत्तीइ पूअए तं तहा पायं ॥१॥
अपि च- अवन्द्यमध्योक्तकुशीलस्य निर्ग्रन्थमध्योक्तकुशीलस्य च लक्षणे विचार्यमाणे एकत्वमेव दृश्यते । तथाहि- अवन्धकुशीलः श्री आवश्यके ज्ञानदर्शनचारित्राचा रविराधकभेदात् त्रिविध उक्तः । श्रीमहानिशीथे तु
" अणेगहा कुसीले, तं जहा - नाणकुसीले १ दंसणकुसीले २ चारितकुसीले ३ तवकुसीले वीरियकुसीले इति "
निर्ग्रन्थमध्योक्तकुशीलश्च श्रीभगवत्यां ज्ञानदर्शनचारित्रतपसां विराधको मनसा क्रोधाद्यासेवकश्च पञ्चधोक्तः । एवं च ज्ञानदर्शनचारित्राणि विराधयन् कुशील इत्युच्यते । इति तत्वतो द्वयोरपि लक्षणमेकमेव । श्रीमहानिशीथे च
एवं अट्ठरसहं सीलिंगसहस्साणं जो जत्थ पए पमन्ते भविज्जा | सेणं तेणं पमायदो से णं कुसीलेणो य ।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82