Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
( ४ )
श्रायुः श्रीफलजयदा दारुमयी मृन्मयी तथा प्रतिमा लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥ ११ ॥ रजतमयी कीर्त्तिकरी प्रजावृद्धिं करोति ताम्रमयो । भूलाभं तु महान्तं शैलप्रतिमाऽथवा लिङ्गम् ॥ ११ ॥ प्रासादतुर्यभागस्य समाना प्रतिमा मता । उत्तमायुः कृते सा तु कार्य केनाधिकाङ्गुला ॥ १३ ॥ अथवा स्वदशांशेन हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा मता ? ॥ १४ ॥ सर्वेषामपि धातूनां रत्नस्फटिकयोरपि । प्रवालस्य च बिम्बेषु चैत्यमानं यदृच्छया ॥ १५ ॥ प्रासादगर्भगेहार्थे भित्तितः पञ्चधा कृते । यक्षाद्याः प्रथमे भागे देव्यः सर्वा द्वितीयके ॥ १६ ॥ विनायक स्कन्ध कृष्णानां प्रतिमाः स्युस्तृतीयके । पद्मा तु तुर्यभागे च लिङ्गमीशां न पञ्चमे ? ॥१७॥
भागे तृतीयेऽविम्बं स्यात् द्वितीयेऽम्बिकादयः ॥ १८ ॥ सने वाहने चैव परिवारे तथा युधे । नखाभरणवस्त्रेषु व्यङ्गदोषो न जायते ॥ १९ ॥ नासामुखे तथा नेत्रे हृदये नाभिमण्डले ।

Page Navigation
1 ... 77 78 79 80 81 82