Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
(२७ ) 'पायपहे न पमज्जइ जुगमायाए न सोहए इरियं । पुढवीदग अगणिमारु - वणस्सइतसेसु निरविक्खो ॥७ संव्वं थोवं उवहिं न पेहए न य करेइ सज्झायं । सहकरो झंझकरो लहुओ गणभेयतत्तिल्लो ॥८॥ खित्ताईयं भुंजइ कालाईयं तत्र विदिन्न । गिoes अणुइयसूरे असणाई अहव उवगरणं ॥ ९ ॥ ठर्वेणाकुले न ठवेइ पासत्थेहिं च संगयं कुणइ | निच्चमवज्झाएरओ न य पेहपमज्जणासीलो ॥१०॥
१ व्या० पायपछे इति' पहेति पथि मार्गे व्रजन्, ग्रामसोम्नि प्रविशन् निस्सरन् वा न पादौ चरणौ प्रमार्जयति, "युगमात्रायां " युगप्रमाणायां भूमौ इया न शोधयति, पृथ्वी शब्देन पृथ्वीकायः, दगशब्देनाप्रकाय: अगणिशब्देन तेजस्कायः मारुतो वायुकायः वनस्पतिकायखसकायश्च पतेषु षट्सु जीवनिकायेषु निरपेक्षोऽपेक्षारहितो विराधयन्न शङ्कते इत्यर्थः ॥
२ व्या 'सव्वं इति' सर्व स्तोकमप्युपधि मुखवखिकामात्रमि न प्रेक्षते, न प्रतिलेखते, न च करोति स्वाध्यायं वाचनादिकं, रात्रौ शयनानन्तरं गाढं शब्दं करोतीति, झंझशब्देन कलहस्तं करोतीति, लघुको नतु गम्भीरो न गुणयुक्त, गणस्य संघाटकस्य भेदे भेदकरणे 'तत्तिल्लोत्ति' तत्परः ॥
३ व्या० 'खित्ताईयं इति' कोशद्वयादुपरिक्षेत्रादानीतमाहारं यदाहरेत्तत्क्षेत्रातीतं कालातीतमिति यदानीताहारं प्रहरत्रयानन्तरं भक्षयति, 'अणुइय सरे इति अनुद्गते सूर्ये गृहाति, सूर्योदयात्प्रथममाहारं गृहाति, अशनादिकं चतुर्विधमाहारं, अथवोपकरणं वखादि, एवंविधः पार्श्वस्थादिः कथ्यते इत्यथः ॥
४ व्या० 'ठवणा इति स्थापनाकुलानि वृद्धग्लानादीनामतीव भक्तिकराणि तानि न स्थापयति न रक्षति, निष्कारणं तत्राहारार्थ गच्छतीत्यर्थः, च पुनः पार्श्वस्थै भ्रष्टाचारैः सार्द्ध संगतं मैत्र्यं करोति,

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82