Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 58
________________ ( ३७ ) संयमाराधकत्वं भणता, भणितमेव पावस्थादीनामपि चारित्रित्वम् । श्रीजीतकल्पभाष्ये तथा - पासत्थोसन्नाणं कुसील - संसत्तनीयवासीणं । जो कुणइ ममत्ताई परिवारनिमित्तहेउं च ॥१॥ तस्स इमं पच्छन्तं० ॥२॥ . ह पुण साहम्मित्ता संजमहेउं च उज्जमिस्तति वा । कुलगणसंघगिलाणे तप्पिस्सति एव बुद्धी तु ॥३॥ एव ममत्त करें परिवालण अह व तस्स वच्छल्लं । दढ श्रावणचित्तो सुज्झति सवत्थ साहू तु ॥४॥ , " इति श्रीजितकल्पस्य भाष्ये पार्श्वस्थादीनां ममत्वादि ममायं परिवारो भविष्यतीत्यादिकारणैरेव निषिद्धं । साधर्मिकत्वादिकारणैस्तु अनुमतमेव । यच्च श्रीमहानिशीथे सुमतिश्राद्धस्यानन्तसंसारित्वमुक्तं तन्न कुशीलसंसर्गमात्रजनितं किन्तु नागिलनाम्ना भ्रात्रा प्रतिबोधनेऽपि शुद्धचारित्रिसद्भावेऽपि तादृक् कुशीलनिद्धंधसपरिवारस्य सचित्तोदकपरिभोगादिबहु दोषदुष्टस्यैकान्तमिथ्यादृष्टेर भव्यस्य ज्येष्ठसाधोः पार्श्वे दीक्षाग्रहणेन, 'जारिसउ तुमं बुद्धि उ तारिसी सोवि तित्थयरो' इति श्रीतीर्थकराशातनाकारित्वेन च वेदितव्यम् । किञ्चयदि पार्श्व स्थादीनां लिङ्गधारित्वमेवेष्टं स्यात् । तदा "दग पाणं पुप्फफलमित्यादि " पूर्वोक्तोपदेशमालागाथापंचकेन लिंगमात्रधारिणां लक्षणानि ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82