Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jain Aradhana Kendra गणधर साई शतकम् । ॥ ४३ ॥ www.kobatirth.org अथवा व्याकरणकलङ्कारछन्दः काव्यादीनां परमार्थस्य = गर्भार्थस्य तात्पर्यार्थस्य रक्षणार्थं शब्दं पदं 'सहस्स' चि तृतीयार्थे षष्ठी ततः शब्देन सह मीलयन्तः = समस्यन्त इत्यर्थः । शास्त्रार्थचिन्तनाभावे हि बठरशेखराः साधवः प्रवचनोन्नतिकारिणो न भवन्ति । सन्तमसपक्षे च स्तोका आरक्षकपुरुषप्रमुखा जनाः स्वपरयोर्निर्वृतिं = सौस्थ्यं समिच्छन्तः कीदृशाः सन्तः ? परमाः=उत्तमाः च ते अर्थाश्च = " अर्थोऽभिधेयरै - वस्तु प्रयोजन-निवृत्तिषु । " इति ( अमर० नानार्थ० ८६ ) । वचनाद् वस्तूनि पदार्थाः = धनधान्यद्विपदचतुष्पदादयस्तेषां रक्षणार्थं शब्दं शब्दस्य मीलयन्तः प्लुतस्वरेण प्राहरिकशब्दं प्राहरिकशब्दस्य संघट्टयन्त इत्यर्थः ॥ ८९ ॥ तथा ' नाणासत्थाणि ' ति, ते तु ते पुनः सम्यग्दृष्टिसुविहितश्रमण श्रावकादयो जना नानाप्रकाराणि दशवैकालिकावश्यको पदेशमालादीनि शास्त्राणि ग्रन्थान् धारयन्ति = व्याख्यानयन्ति चिन्तयन्तीति यावत् । 'जेहिं वियारिऊण परं' इति यैः शास्त्रैः कृत्वा परं पार्श्वस्थादिकमात्मव्यतिरिक्तं मोपणार्थं भक्षणार्थम् - आगतं प्राप्तं विचार्य =" अहो ! औद्देशिकाधाकर्मादिभोजिनः षट्कायोपमर्दकारिणः सकिञ्चना असंयता गृहशरणप्रसक्ताः सचितपुष्पफलोदकोपभोगिनोऽब्रह्मसेवादिकलङ्कपङ्कनिमग्ना एते ' । तच्च सर्व्वमौदेशिकोपभोगादिकमनाचीर्णं मुनीनाम् -" उद्देसिअं कीयगर्ड, निआगमभिहडाणि अ । " इत्यादिना, " आहाकम्मं भुंजड़, छकायपमद्दणो घरं कुणई । पच्चक्खं च जलगए, जो पियइ कहं तु सो साहू || १ | जे घरसरणपसत्ता, छक्कायरिऊ सकिंचणा अजया । नवरं मुत्तूण घरं, घरसंकमणं कयं तेहिं || २ ||" इत्यादिना च सिद्धान्तप्रतिषिद्धत्वात्साधुवेषेणैते पापा लोकमोपणं कुर्वन्ती" ति विमृश्य पार्श्वस्थादिजनं परिहरन्ति = दूरतो वर्जयन्ति तद्वन्दनादिविधानस्य सिद्धान्ते महानर्थहेतुकत्वेन प्रतिपादनात् तथा चोक्तम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री जिनवल्लभसूरीणां सप्रपंच स्तुतिगर्भ चरित्रादि ॥ ॥ ४३ ॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195