Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गणधर
सार्द्धशतकम् ।
॥ ६३ ॥
www.kobatirth.org
वाका 'अपि,' समुच्चयेऽपिशब्दः, सर्वथा = सर्वप्रकारेण विघटिता अपि = वियुक्ता अपि संघटिताश्चक्रवाकाः । रात्रौ वियोगः सूर्योदये च संयोगचक्रवाकचक्रवाक्योः, इयं दैववशात्स्थितिः, तथा चोक्तं केनापि -
46
वदत किमपि दृष्टं स्थानमस्ति श्रुतं वा, व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् ।
भ्रमति विगसार्थानित्थमापृच्छमानो, - रजनिविरह खिन्नश्चक्रवाको वराकः ॥ १ ॥ "
46
तथा ' भमिरेहिं भमरेहिंपि 'त्ति, भ्रमणशीलैः = नानावनराजिसञ्चारिभिः भ्रमरैः अपि द्विरेफैरपि प्राप्तः सुमनः संयोगः= 'सुमना मालती जातिः " इत्यभिधानकोशपाठान्मालती मेलापकः । मधुकरस्य हि सकलवनराजिमध्येऽत्यन्तं मालत्येव वल्लभा, तथा च पठ्यते
" महमहिअं छज्जइ मालतीए एकाए नवरि भुवणम्मि । जीसे गंधालिद्धा, भसलामसलेहिं पिअंति ।। १ ।।
लिमिण मणिमिणं, विरसमिणं गंधवजिअमिणं च । मालइरत्तो भसलो, परिहरइ बियारिडं कुसुमं ॥ २ ॥ " भव्यजनेन=वणिक्-क्षत्रियादिलोकेन जागरितं = विबुद्धम् । अवल्गितं = निःशङ्केनोल्लसितं दुष्टश्वापदगणेन सिंह - व्याघ्रगण्डक-तरक्षादिक्षुद्रसच्चसमूहेन जाड्यमपि शैत्यमपि, सर्वे 'अपि' शब्दाः समुच्चयार्थाः खण्डितम् = अपनीतम् च । मण्डितं च=भूषितं च महीमण्डलं सकलं नानारत्न- नानासुवर्णाभरण - नानाक्रयाणक-नाना कणहड्डिका - नानाप्रकारशृङ्गारसारमस्तकारोपितघटभारसं चरिष्णुनरनारीचार- नानाविधजातिगजतुरगपत्ति - प्रचार- जिनभवनवाद्यमानशङ्ख पटह मेरी भाङ्कार- नानास्थानगच्छदागच्छन्मुनिविहार दक्षिण पूर्वदेशोत्तरापथप्रस्थातृसार्थ संचारैर्मण्ड्यत एव हि महीमण्डलमिति गाथाचतुष्टयार्थः ॥ १३० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनवल्लभ
सूरीणां
सप्रपंचस्तुतिगर्भ
चरित्रादि ॥
॥ ६३ ॥

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195