Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 191
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org । अथ प्रशस्तिः । श्रीमजिनेश्वरगुरोरन्तेपदासीच्च कनकचन्द्रगणिः । शर-निधि-दिन केरवर्षे, पूर्व तेन कृता वृत्तिः ॥ १ ॥ रस- जलधि - षोडशमिते, वर्षे पोषस्य शुद्धसप्तम्याम् । श्रीजिनचन्द्रगणाधिप, राज्ये जेसलसुरधराधे ॥ २ ॥ श्रीमति खरतरगच्छे, श्रीसागरचन्द्रसूरिनामानः । समभूवन्नाचार्या, [र्य] - वर्यास्तेषां सुशाखायाम् ॥ ३ ॥ श्रीदेवतिलकसञ्ज्ञा - स्तिलकसमाः सर्वपाठकानां ये । तेषां शिष्या दक्षाः, श्रीमन्तो विजयराजाह्वाः ॥ ४ ॥ सौभाग्यभाग्यधैर्य, स्थैर्यादिगुणौघरत्न जलनिधयः । अभवन् सदुपाध्याया, स्तदुपाध्यायेन शिष्येण ॥ ५ ॥ तट्टीकादर्शादिह, संक्षिप्य च पद्ममन्दिरेणापि । लिलिखेऽनुग्रहबुद्ध्या, संक्षेपरुचिज्ञजनहेतोः ॥ ६ ॥ श्रीगणधर सार्द्धशतप्रकरणटीकाविधायिनि श्रमणे । श्रीगणधरप्रसादाद्भविकं सह कामितैर्भवतात् ॥ ७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir %%%%% % %

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195