Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणघर
ग्रन्थकर्तुनामादि ।
शतकम् ।
॥७१॥
___ अथ यद्रूपकालङ्कारेण संसारस्य भास्करत्वमारोपितं तजनितसन्तापापनुत्तयेऽनुरूपमुपमानमाह-सोमचन्द्रबिम्बवत् , सोम-शीतलस्वभावं नयनाह्लादकं यच्चन्द्रबिम्बम् अमृतकिरणमण्डलं तदिव | यथा किल चन्द्रमण्डलं भीष्मग्रीष्मोष्मसंतप्तं निखिलमपि जगत् क्षीरसमुद्राविसृत्वरक्षीरपरम्परायमाणामृतार्द्रकौमुदीधवलपटलेनाच्छाद्य मूर्छदतुच्छामृतरश्मिच्छटाभिर्निर्वापयति । एवमेतदपि प्रकरणं गणधरगुणस्मृतिपुरस्सरं सुस्वरं संवेगसारं निरुद्धाशुद्धबुद्धिप्रचारं पठ्यमानं समानं भवोद्भवभीमनिस्सीमजन्मजरामरणरोगशोकदारिद्रयदौर्भाग्यादिकृतचित्तखेदविच्छेदमुद्यन्मेदस्विप्रमोदसंपादनेनापनुदतीत्यर्थः । अत्र च 'जिणदत्तगणी 'ति कविना श्लिष्टं स्वनामनिर्दिष्टं, तत्र चायमर्थः-जिनदत्तगणिन् ! जिनदत्ताचार्य ! इत्यात्मसम्बोधनम् । गुणशब्देनादावुपलक्षितं शतं गाथानामिति दृश्यम् । अग्रे तु यः पूर्व प्रतिपादितः स एवार्थ इति गाथार्थः ॥ १५ ॥
GOODCAKACADCOM
SACRORECASIA
-
-
-
॥ ७२
For Private and Personal Use Only

Page Navigation
1 ... 188 189 190 191 192 193 194 195