Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir ACACARACTE है वादयो जिनदत्तगणिगुणाः, तद्हणरूपं शतं गाथानामिति प्रस्तावाद्गम्यते जिनदत्तगणिगुणशतं ' कर्तु,' भव्यानां भवरवि सन्तापं संसारसूर्यधर्मम् अपहरतु अपनयत्विति योगः। अथ किं शतं शतमेव ? नेत्याधिक्यमाह-'सप्पन्न 'ति, सह पञ्चाशता वर्तते सपञ्चाशत् पञ्चाशताऽतिरिक्तमित्यर्थः । यस्य द्विर्भावः प्राकृतत्वात् । नन्वेतद्गणधरगुणस्तुतिरूपं गाथानां शतं सार्द्ध पुस्तकारूढं हृदयान्तर्वति वा भवरविसन्तापापहारकम् ? इत्यत्राह-' भवेहिं भणिजंतं 'ति भव्यैः आसन्नसिद्धिकैभण्यमानं-पख्यमानम् । अयमभिप्रायः यद्यपि पुस्तकाधिरूढं पूज्यमानमेतज्ज्ञानत्वेन ज्ञानावरणकर्मप्रमापणक्षमम् , तथा हृदयान्तःस्थमपि स्मर्यमाणमनार्यतादिप्रत्यूहापोहाय प्रभवति तथापि माधुर्यवर्यस्वरेण भावसारमेकाग्रचित्ततया पापठ्यमानं गुण्यमानं परावय॑मानमात्मनोऽन्येषां च श्रोतृणां मनोमोदकं समस्तविघ्ननोदकं शान्तिकरं कान्तिकरं क्षेमकरमारोग्यकरं धृतिकरं पुष्टिकरं तुष्टिकरं कीर्तिकरं प्रीतिकरं स्फीतिकरं नीतिकरं किंबहुना समस्तकल्याणकरं भवति । एतावता चानेन भगवताऽऽत्मम्भरित्वमपास्तं, परोपकारस्य चावश्यकारित्वमभिहितं, तस्यैव धर्मकल्पपादपबीजकल्पत्वात् , तदुक्तम् " परोपकारः कारुण्य, देवताराधनं शमः । सन्तोषश्चेति धर्मस्य, परं साधनपश्चकम् ॥ १॥" तथाऽसद्गुरुभिरप्यन्योक्तिसूक्तमुक्तं यथा " चिरमयमिह नन्द्यावद्धमूलस्तटिन्या, अधितटमुपजातो यस्तृणस्तम्ब उच्चैः। विलसदनिलदोलल्लोलकल्लोलजाल, प्रपतितजनताया राति हस्तावलम्बम् ॥१॥" For Private and Personal Use Only

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195