Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACC
RADIOCALCREDCO
सालङ्काराश्चक्रवन्धाश्चक्रिरे, तन्मध्यादेकमुपमोपेतं वर्णिकामात्रं चक्रं दर्श्यते-
"विभ्राजिष्णुमगर्वमस्मरमनाशादश्रुतोलचने, सज्ज्ञानंद्यमणि जिनं वरवपुः श्रीचन्द्रिकाभेश्वरम् ।
वन्दे वर्ण्यमनेकधा सुरनरैः शक्रेण चैनछिदं, दम्भारि विदुषां सदा सुवचसाऽनेकान्तरङ्गप्रदम् ॥१॥" " चक्रं माघसमं"। अत्र च 'सज्ज्ञानामणिं जिनं वरवपुःश्रीचन्द्रिकामेश्वरम् ' इत्यत्र रूपकालङ्कारेऽप्युपमाया अन्तर्भावादुपमायुक्तत्वम् । 'जिनवल्लभेन गणिनेदं चक्रे ' इति चात्र बन्धाक्षराणि । विष्णुपक्षे च संजनितः-उत्पादितो विधिः=" विधिब्रह्मविधानयोः । विधिवाक्ये च देवे च, प्रकारे कालकल्पयोः ॥” इति (हैमानेकार्थ० २६१ ) वचनात्ब्रह्मा येन स तथा, नारायणनाभ्यम्भोरुहसंभृतत्वेन तस्य 'पायोनि 'रिति लोके विख्यातत्वात् । संप्राप्ता गुर्वी-बहुमानपात्रं श्री लक्ष्मीर्येन, क्षीरसमुद्रे हि मथिते स्वभाग्यवशात्केनापि किमपि किमपि प्राप्तं ततो लक्ष्मीः केशवेन प्राप्ता, तथा च पठ्यते
" विहिविहि चिय लब्भइ, अमयं अमराण महुमहे लच्छी । रयणायरे वि महिए, हरस्स भाए विसं जायं ॥१॥"
सदाऽपि सर्वदापि शेषस्य-निद्राकाले शय्यारूपस्य स्वामित्वेन पदंत्राणम् । यदि वा-वेः-पक्षिणो गरुडरूपवाहनस्य शेषस्य च शयनभूतस्य पदंत्राणस्थानम् । कृपाणो-नन्दकाख्यः खड्गः करे हस्ते यस्य स तथा । सुरैः देवैः प्रणतस्तत्पक्षस्थितत्वेन तजयदायित्वात् । धर्मो धनुः शाख्यिं चक्र सुदर्शनाख्यं धरतीति धर्मचक्रधर इति गाथार्थः ॥ १३२ ॥
अथ विरश्चिना साम्यमाह
For Private and Personal Use Only

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195