Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ननु यथा सूर्येण साम्यं तथा चन्द्रेणापि भविष्यति १, न, इत्याह अत्थमई सकलंको, सया ससंको वि दंसिअप ओसो । दोसोदए पत्तपहो, तेण समो सो कहं हुज्जा ॥१३१॥ व्याख्या - अर्थे द्रविणे मतिर्यस्य सः अर्थमतिः = ' धनं धन ' मित्यापूरितध्यानः । तथा सकलङ्कः=सापवादः । तथा सदा सर्वदा न तु कदाचित् । दर्शितप्रद्वेषः = संभावितमत्सरः । तथा दोषाणां चौर्यपारदार्यादिदूषणानाम् उदये समुल्लासे प्राप्ता वक्त्रसच्छायता-प्रमोदकत्वादिलक्षणा प्रभा येन स दोषोदयप्राप्तप्रभः । शशाङ्कोऽप्येवंविधः । अयं च ( ( आचार्यः ) - " त्वग्भेदच्छेदखेदव्यसनपरिभवाऽप्रीतिभीतिप्रमीति, - क्लेशाविश्वासहेतुं प्रशमदमदयां, वल्लरी धूमकेतुम् । अर्थं निःशेषदोषाङ्कुरभरजनन, - प्रावृषेण्याम्बु धूत्वा, लूत्वा लोभप्ररोहं सुगतिपथरथं धत्त सन्तोषपोषम् ॥ १ ॥ " इत्यादिना दूषयन्नर्थनिचयं वैरस्वामीव हस्तेनापि न स्पृशति निर्ग्रन्थशिरोमणित्वात् । न च कलङ्कलेशेनापि स्पृष्टः । नापि दर्शितप्रद्वेषः गुणिषु बहुमानित्वात्, निर्गुणेषु चोपेक्षाकारित्वात् । नापि दोषाणामुदये प्राप्तप्रभः, तदाधायिनां तन्निग्रहोपायचिन्तकत्वात्तस्य । ततः कथमसौ भगवान् तेन तादृग्गुणेन शशाङ्केन चन्द्रमसा समः = तुल्यो भवेत् ? न कथञ्चिदित्यर्थः । इति वक्रोक्त्या तत्प्रशस्त्यै व्यतिरेक उक्तः । अथ च - अस्तमेति, सकलङ्कः = सलाञ्छनः, दर्शितप्रदोषः रजनीसुखोदयित्वात्, दोषोदये= रजन्युत्थाने प्राप्तज्योत्स्नश्वन्द्र इति मौलोऽर्थः इति गाथार्थः ॥ १३१ ॥ अथ तस्यैव विष्णुदासह साम्यमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195