Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org च्ङ्केत गरुन्मतो वेगो = जवो यस्य स तथेति वा, यो हि यमध्यारूढो विहरति तस्य तद्वेगः स्फुट एव भवति । ' छच्चरणसमओ 'त्ति, षड्चरणानां सम्मतः इष्टः, अयमभिप्रायः - मधुकरा हि मकरन्दलम्पटाः, से च पद्मे कदाचिदासीनोऽपि स्यादसौ ततो यो हि यदीयं वस्तूपयुङ्क्ते तस्य तद्वस्तुस्वामी सम्मतो भवत्येवेति न काप्यत्र विप्रतिपत्तिरिति गाथार्थः ॥ १३३ ॥ तस्य तर्हि शम्भुनाऽपि सह साम्यमस्तु नेत्याह- धरइ न कवड्डयं पि हु, कुणइ न बंधं जडाणवि कया वि । दोसायरं च चकं, सिरम्मि न चडावए कह वि ॥ १३४ ॥ संहरइ न जो सत्ते, गोरीए अप्पए न निअमंगं । सो कह तव्विवरीएण संभुणा, सह लहिज्जुवमं ॥ १३५ ॥ व्याख्या -यो हि भगवान् न धारयति=नाङ्गीकुरुते कपर्दकमपि आस्तां रूप्यसुवर्णादिकम् । न करोति=न विधत्ते बन्धं= संग्रह जडानां मूर्खाणां कदाचित् । तथा दोषाकरं दूषणनिधानं चक्रं = मायाविनं न शिरसि = मस्तके चटापयति = आरोपयति कथमपि, प्रत्युत तादृशं ज्ञात्वा कृष्णभुजङ्गमिव दूरतः परिहरति । तथा न संहरति-न विनाशयति सच्चान् प्राणिनः पिपीलिकाया अपि अद्रोहकत्वात् । तथा नार्पयति न ददाति निर्ज=स्वकीयमङ्गम्, कस्याः १ गौर्याः “ गौरी शिवप्रिया देवी, गौरी गोरोचना मता । गौरी स्यादप्रसूता स्त्री, गौरी शुद्धोभयान्वया ॥ १ ॥ " इति शब्दरत्नप्रदीपपाठात् अप्रसूता स्त्री तस्याः । स १] श्वेतगरुन्मान्-श्वेतपक्षी ब्रह्मप्रसङ्गात् 'हंस' इत्यर्थः । २ स च ब्रह्मा । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195