Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गणधर -
सार्द्ध
शतकम् ।
112 11
www.kobatirth.org
व्याख्या - उपमीयमाने = सदृशीक्रियमाणे यस्मिन् सन्तः - विचक्षणाः, नो= नैव साम्यं समतां समुपयान्ति गच्छन्तीत्यत्र न काऽपि विप्रतिपत्तिरिति । अमुमेवार्थ समर्थ्यार्थान्तरन्यासालङ्कारेण द्रढयति - असमान गुणः = असाधारणधम्मों यो भवति कथं नु स प्राप्नोति उपमां साम्यं ? न कथञ्चिदित्यर्थः, अतो युक्तमेवैतदिति गाथार्थः ॥ १४१ ॥
ननु यावद्गुणोऽसौ त्वया वर्णितस्तावन्त एवास्य गुणाः ? नेत्याह
जलहिजलमंजलीहिं, जो मिणइ नहंगणंपि हु पएहिं । परिसक्कइ सो वि न सक्कड़ जग्गुणगणं भणिउं ॥
व्याख्या– ननु जलधिजलं = महासमुद्रसलिलं मातुं संख्यातुमञ्जलिभिः शक्यते ? नहि । अथ को नभोऽङ्गणं पदैः= चरणैः परिष्वष्कते= परिभ्राम्यति तस्यान्तं यायादित्यर्थः, नहि नहि । ननु अस्त्येवं, परं जलधिजलमपि यो मिनोति, नभोऽङ्गणमपि पदैः परिष्वष्कते सोऽपि यद्गुणगणं भणितुं न शक्नोतीत्यतीव दुःशकत्वं भणितं भवतीति गाथार्थः ॥१४२॥ अथ कस्यान्ति तेनागमः कथं शुश्रुवे । तत्राह -
जुगपवरगुरुजिणेसर, सीसाणं अभयदेवसूरीणं । तित्थभरधरणधवलाणमंतिए जिणमयं विमयं ॥ १४३॥ व्याख्या - युगप्रवरश्रीजिनेश्वरसूरीणां शिष्याणां श्रीअभयदेवसूरीणाम् कीदृशानाम् ? तीर्थ भरधरणधवलानां प्रवचनघुराभारधारणोद्धुरकन्धरधौरेयाणाम्, अन्तिके=समीपे येन जिनमतम् = अर्हदागमः विमतं विशेषेण सातिशयं मतम् = अस्तित्वेन ज्ञातमिति गाथार्थः ॥ १४३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनवल्लभ
सूणां
सातिशय
स्तुतिगर्भचरित्रादि ॥
॥ ६८ ॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195