Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 176
________________ Shri Mahavir Jain Aradhana Kendra गणघरसार्द्ध शतकम् । ॥ ६४ ॥ www.kobatirth.org संजणिअविही संपत्तगुरुसिरी जो सया विसेसपयं । विog or किवाणकरो, सुरपणओ धम्मचक्कधरो ॥ १३२ ॥ व्याख्या—यश्च विष्णुरिव कृष्ण इव वर्त्तते इति क्रिया गम्यते । कीदृशः १ संजनितः = विशेषत उत्पादितः प्रकाशित इत्यर्थः, विधिः=देवगृहादिविषयो यथोचिताचारो येन स संजनितविधिः । तथा संप्राप्ता=सम्यगुलब्धा गुरुश्रीः="श्रीर्लक्ष्म्यां | सरलद्रुमे । वेषोपकरणे वेषरचनायां मतौ गिरि । शोभा - त्रिवर्गसंपरयोः " इति ( हैमानेकार्थ० १२ ) पाठाद् आचार्यलक्ष्मीर्येन स संप्राप्तगुरुश्रीः- लब्धयुगप्रधानाचार्यपद इत्यर्थः । यदि वा - गुर्ती=महत्तराश्रीः = शोभा येन । यदि वा गुरोरिववाचस्पतेरिव श्रीः=मतिर्येन गुर्बी दूरदेशव्यापिनी श्री: - गीर्येनेति वा । सदा विशेषपदमिति, ज्ञानविशेष - मन्त्रविशेषतन्त्रविशेष- चारित्र विशेष - विद्याविशेषाणां समस्तानां पदं =स्थानम् । तथा 'किवाणकरो 'त्ति, कृपा करुणा आज्ञा भगवद्वचनं कृपाज्ञे ते करोतीति कृपाज्ञाकरः । सुरैः = चामुण्डादिदेवताभिः प्रणतः = वन्दितः । तथा धर्म्मचक्रधर इति, दुर्गतौ पतन्तं धारयतीति धर्म्मस्तस्यात्र प्रस्तावात्क्षान्त्यादिदशभेदत्वेन चक्रं - समूहस्तं धारयतीति धर्म्मचक्रधरः । यदि वा धर्म्मचक्रं नाम तपो विशेषम् । “धम्र्म्मो यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्गेऽर्हत्य हिंसादौ, न्यायोपनिषदोरपि ।। " इति ( हैमानेकार्थ० (३३५) पाठात् धर्मो न्याय उच्यते ततो न्यायचक्रं नाम जैनमन्त्रयन्त्रादिशास्त्रं वा, धर्म्मशब्देनोपमा स चालङ्कारविशेषस्तयोपमया युक्तं चक्रं चक्रबन्ध - चित्रकाव्यविशेषस्तं धारयतीति वा । तथा चानेन भगवता कविचक्रचक्रवर्त्तिना नानारूपाः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir + श्रीजिनवल्लभ सूरीणां सप्रपंच स्तुतिगर्भचरित्रादि ॥ ॥ ६४ ॥

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195