________________
Shri Mahavir Jain Aradhana Kendra
गणधर
साई
शतकम् ।
॥ ४३ ॥
www.kobatirth.org
अथवा व्याकरणकलङ्कारछन्दः काव्यादीनां परमार्थस्य = गर्भार्थस्य तात्पर्यार्थस्य रक्षणार्थं शब्दं पदं 'सहस्स' चि तृतीयार्थे षष्ठी ततः शब्देन सह मीलयन्तः = समस्यन्त इत्यर्थः । शास्त्रार्थचिन्तनाभावे हि बठरशेखराः साधवः प्रवचनोन्नतिकारिणो न भवन्ति । सन्तमसपक्षे च स्तोका आरक्षकपुरुषप्रमुखा जनाः स्वपरयोर्निर्वृतिं = सौस्थ्यं समिच्छन्तः कीदृशाः सन्तः ? परमाः=उत्तमाः च ते अर्थाश्च = " अर्थोऽभिधेयरै - वस्तु प्रयोजन-निवृत्तिषु । " इति ( अमर० नानार्थ० ८६ ) । वचनाद् वस्तूनि पदार्थाः = धनधान्यद्विपदचतुष्पदादयस्तेषां रक्षणार्थं शब्दं शब्दस्य मीलयन्तः प्लुतस्वरेण प्राहरिकशब्दं प्राहरिकशब्दस्य संघट्टयन्त इत्यर्थः ॥ ८९ ॥ तथा ' नाणासत्थाणि ' ति, ते तु ते पुनः सम्यग्दृष्टिसुविहितश्रमण श्रावकादयो जना नानाप्रकाराणि दशवैकालिकावश्यको पदेशमालादीनि शास्त्राणि ग्रन्थान् धारयन्ति = व्याख्यानयन्ति चिन्तयन्तीति यावत् । 'जेहिं वियारिऊण परं' इति यैः शास्त्रैः कृत्वा परं पार्श्वस्थादिकमात्मव्यतिरिक्तं मोपणार्थं भक्षणार्थम् - आगतं प्राप्तं विचार्य =" अहो ! औद्देशिकाधाकर्मादिभोजिनः षट्कायोपमर्दकारिणः सकिञ्चना असंयता गृहशरणप्रसक्ताः सचितपुष्पफलोदकोपभोगिनोऽब्रह्मसेवादिकलङ्कपङ्कनिमग्ना एते ' । तच्च सर्व्वमौदेशिकोपभोगादिकमनाचीर्णं मुनीनाम् -" उद्देसिअं कीयगर्ड, निआगमभिहडाणि अ । " इत्यादिना, " आहाकम्मं भुंजड़, छकायपमद्दणो घरं कुणई । पच्चक्खं च जलगए, जो पियइ कहं तु सो साहू || १ | जे घरसरणपसत्ता, छक्कायरिऊ सकिंचणा अजया । नवरं मुत्तूण घरं, घरसंकमणं कयं तेहिं || २ ||" इत्यादिना च सिद्धान्तप्रतिषिद्धत्वात्साधुवेषेणैते पापा लोकमोपणं कुर्वन्ती" ति विमृश्य पार्श्वस्थादिजनं परिहरन्ति = दूरतो वर्जयन्ति तद्वन्दनादिविधानस्य सिद्धान्ते महानर्थहेतुकत्वेन प्रतिपादनात् तथा चोक्तम्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनवल्लभसूरीणां
सप्रपंच
स्तुतिगर्भ
चरित्रादि ॥
॥ ४३ ॥