Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 163
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MARACCORRRRRRC पारम्पर्येण ? नेत्याह-सुगुरुजनस्य पारवश्येन पारम्पर्येण चेति गाथार्थः ॥ ११५ ॥ ___ अथ तानेव सुविहितसाधून असाधारणगुणैः स्तुवन्नाहसंदेहकारितिमिरेण तरलिअंजेसि दंसणं नेय। निव्वुइपहं पलोयइ, गुरुविज्जुवएसओ सहओ॥११६॥ ___व्याख्या-येषां सुविहितसाधूनां दर्शनं सम्यक्त्वं नैव-तरलितं नैव व्यामूढं, केन ? सन्देहकारि संशयाधायि यत्ति| मिरम्=अन्धकारं तेन चाज्ञानमुपलक्ष्यते तत्रूपत्वात्तस्य, ततः अज्ञानेन=सन्देहकारितिमिरेण। किं तर्हि ? प्रलोकते-पश्यति, किम् ? निवृतिपथं मोक्षमार्गम् । कस्मादेव ? मित्याह-गुरुरेव वैद्यो-भिषक तस्योपदेशः हितकृत्यप्रेरणं तदेवौषधं-तिक्तादिद्रव्यमेलापको गुरुवैद्योपदेशौषधं तस्मात्तथेति, अयमभिप्राय:-यथा दर्शनं " दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि" इति (हैमानेकार्थ० ९८१) वचनात्लोचनं तिमिरेण दृष्टिरोगेण सन्देहकारिणा 'किमयं विष्णुमित्रचैत्रो वे ?' ति संशयोत्पादकेन. गुरुज्येष्ठ परिणतवया इत्यर्थः, तादृशो यो वैद्यः चिकित्सको गुरुवैद्यस्तेनोपदेशः उपदिष्टं यदौषधं=" मुस्ता शिरीषवीज, कपित्थवीजं करञ्जबीजं च । त्रिकटुकसुनागकेसर-मथ वंशत्वक् समै गैः ॥१॥ छायाशुष्का कार्या, गुटिका चनकप्रमाणिका नित्यम् । मधुना घृष्टाञ्जनतस्तिमिरं दूरेण नाशयति ॥ २॥" इत्यादि, तस्मात् न तरलीक्रियते न संदेग्धि किन्तु निर्वृतिहेतुं सुखावहं पथं-मार्ग प्रलोकयतीत्येवमिति प्रतीयमानोऽर्थ इति गाथार्थः ।। ११६ ।। तथा 6 4444444 445 44 44 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195